________________
ધર્મબિંદુપ્રકરણ
પહેલો અધ્યાય
अध्यायमi)
वाम
शे. (१)
तत्र च- गृहस्थधर्मोऽपि द्विविधः- सामान्यतो विशेषतश्च ॥२॥ इति ।
गृहस्थधर्मोऽपि उक्तलक्षणः, किं पुनः सामान्यतो धर्म इत्यपिशब्दार्थः, द्विविधो =द्विभेदः, द्वैविध्यमेव दर्शयति- सामान्यतो नाम सर्वशिष्टसाधारणानुष्ठानरूपः, विशेषतो सम्यग्दर्शना -ऽणुव्रतादिप्रतिपत्तिरूपः, चकार उक्तसमुच्चये इति ।।२।।
તેમાં જે ગૃહસ્થ ધર્મ છે તે પણ સામાન્ય અને વિશેષ એમ બે પ્રકારે છે. સર્વ શિષ્ટપુરુષોનો સાધારણ ધર્મ તે સામાન્ય ધર્મ. (અર્થાત્ માર્ગાનુસારી જીવોનો નીતિપાલન આદિ જે ધર્મ તે સામાન્ય ધર્મ.) સમ્યગ્દર્શન અને અણુવતો આદિનો स्वी२ त विशेष धर्म. (२)
तत्राद्यं भेदं शास्त्रकृत् स्वयमेवाध्यायपरिसमाप्तिं यावद् भावयन्नाह
तत्र सामान्यतो गृहस्थधर्मः कुलक्रमागतमनिन्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठानम् ॥३॥
तत्र तयोः सामान्य-विशेषरूपयोः गृहस्थधर्मयोः वक्तुमुपक्रान्तयोर्मध्ये सामान्यतः गृहस्थधर्मोऽयम्, यथा कुलक्रमागतं पितृ-पितामहादिपूर्वपुरुषपरम्परासेवनाद्वारेण स्वकालं यावदायातम्, अनुष्ठानमित्युत्तरेण योगः, पुनः कीदृशं तदित्याह- अनिन्द्यम्, निन्धं तथाविधपरलोकप्रधानसाधुजनानामत्यन्तमनादरणीयतया गर्हणीयं यथा सुरासंधानादि, तन्निषेधादनिन्द्यम्, तथा विभवाद्यपेक्षया विभवं स्वकीयमूलधनरूपमादिशब्दात् सहायकाल-क्षेत्रादिबलं चापेक्ष्य न्यायतो न्यायेन शुद्धमान-तुलोचितकलाव्यवहारादिरूपेण आसवेनीयावसरचित्ताराधनादिरूपेण च अनुष्ठानं वाणिज्य - राजसेवादिरूपम्, इदमुक्तं भवति- सर्वसाधुसंमतन्यायप्रधानस्य स्वविभवतृतीयभागादिना व्यवहारमारभमाणस्य राजसेवादौ च तदुचितक्रमानुवर्तिनः कुलक्रमायातानिन्द्यानुष्ठानस्य अत्यन्तनिपुणबुद्धेः अत एव सर्वापायस्थानपरिहारवतो गृहस्थस्य धर्म एव स्यात्, दीनानाथाधुपयोगयोग्यतया धर्मसाधनस्य विभवस्योपार्जनं प्रति प्रतिबद्धचित्तत्वादिति। यच्याऽदावेवानिन्द्यानुष्ठानस्य गृहस्थसंबन्धिनो धर्मतया शास्त्रकारेण निदर्शनमकारि तत् ज्ञापयति निरनुष्ठानस्य निर्वाहविच्छेदेन गृहस्थस्य सर्वशुभक्रियोपरमप्रसङ्गादधर्म एव स्यादिति, पठ्यते च -
૧૧