SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રક૨ણ ग्लानस्य तथाविधव्याधिबाधावशेन ग्लानिमागतस्य गुवदिर्लोकस्य औषधादिज्ञातात् औषधस्य आदिशब्दात् स्वनिर्वाहस्य च ग्रहः, तस्य गवेषणमपि औषधादीत्युच्यते, ततो ग्लानौषधाद्येव ज्ञातं दृष्टान्तः, तस्मात्, त्यागः कार्यो गुर्वादिरिति । इदमुक्तं भवति- यथा कश्चित् कुलपुत्रकः कथञ्चिदपारं कान्तारं गतो माता-पित्रादिसमेतः तत्प्रतिबद्धश्च तत्र व्रजेत्, तस्य च गुर्वादेः तत्र व्रजतो नियमघाती वैद्यौषधादिरहितपुरुषमात्रासाध्यः तथाविधौषधादिप्रयोगयोग्यश्च महानातङ्कः स्यात्, तत्र चासौ तत्प्रतिबन्धादेवमालोचयतियथा न भवति नियमादेषो गुरुजनो नीरुक् औषधादिकमन्तरेण, औषधादिभावे च संशयः कदाचित् स्यात् कदाचिन्नेति, कालसहश्चायम्, ततः संस्थाप्य तथाविधचित्रवचनोपन्यासेन तं तदौषधादिनिमित्तं स्ववृत्तिहेतोश्च त्यजन् सन्नसौ साधुरेव भवति, एष हि त्यागोऽत्याग एव, यः पुनरत्यागः स परमार्थतस्त्याग एव, यतः फलमंत्र प्रधानम्, धीराश्चैतद्दर्शिन एव भवन्ति, तत औषधसम्पादनेन तं जीवयेदपीति सम्भवात् सत्पुरुषोचितमेतत् । एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो माता-पित्रादिसङ्गतो धर्मप्रतिवद्धो विहरेत्, तेषां च तत्र नियमविनाशकोऽप्राप्तसम्यक्त्ववीजादिना पुरुषमात्रेण साधयितुमशक्यः, सम्भवत्सम्यक्त्वाद्यौषधो दर्शनमोहाद्युदयलक्षणः कर्मातङ्कः स्यात्, तत्र स शुक्लपाक्षिकः पुरुषो धर्मप्रतिबन्धादेवं समालोचयति, यदुत - विनश्यन्त्येतान्यवश्यं सम्यक्त्वाद्यौषधविरहेण, तत्सम्पादने विभाषा, कालसहानि चेमानि व्यवहारतस्ततो यावद् गृहवासं निर्वाहादिचिन्तया तथा संस्थाप्य तेषां सम्यक्त्वाद्योपधनिमित्तं सर्वचारित्रलाभनिमित्तं च स्वकीयौचित्यकरणेन त्यजन् सन्नभीष्टसंयमसिद्धया साधुरेव, एप त्यागो ऽत्यागस्तत्त्वभावनातः, अत्याग एव च त्यागो मिध्याभावनातः, तत्त्वफलमंत्र प्रधानं बुधानाम्, यतो धीरा एतद्दर्शिन आसन्नभव्याः, एवं च तानि सम्यक्त्वाद्यीपधसम्पादनेन जीवयेदात्यन्तिकम् अपुनर्भरणेनामरणावन्ध्यबीजयोगेन सम्भवात् सुपुरूषांचितमेतद्, यतो दुष्प्रतिकारौ नियमान्मातापितरौ शेषश्च यथोचितं स्वजनलोकः, एष धर्मः सज्जनानाम्, भगवानत्र ज्ञातं परिहरन्नकुशलानुबन्धिमाता- पित्रादिशोकमिति ||३१|| હવે આ પ્રમાણે પણ માતા - પિતા વગેરે તેને છોડવા ઉત્સાહિત ન બને તો शुंड ते उहे छे : ગ્લાન ઔષધ આદિના દૃષ્ટાંતથી માતા - પિતા વગેરેનો ત્યાગ કરવો, અર્થાત્ તેવા પ્રકારની વ્યાધિની પીડાના કારણે ગ્લાનિને પામેલા ગુરુ વગેરે (= માતા–પિતા વગેરે) લોકના માટે ઔષધ લેવા જવાના દૃષ્ટાંતથી માતા–પિતા વગેરેનો ત્યાગ ૨૩૩ ચોથો અધ્યાય "
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy