________________
ધર્મબિંદુપ્રકરણ
ચોથો અધ્યાય
वक्ष्यमाणक्रमाधिगतदीक्षः, समुपासितगुरु कुलः विधिवदाराधितगुरु परिवारभावः, अस्खलितशीलः प्रव्रज्याप्रतिपत्तिप्रभूत्ये वाखण्डितव्रतः, सम्यगधीतागमः सूत्रार्थोभयज्ञानक्रियादिगुणभाजो गुरोरासेवनेनाधिगतपारगतगदितागमरहस्यः, यतः पठ्यते -
तित्थे सुत्तत्थाणं गहणं विहिणा उ तत्थ तित्थमिदं। उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो ।।१४९।। उभ्यन्नू वि य किरियापरो दढं पवयणाणुरागी य । ससमयपरूवगो परिणओ य पन्नो य अच्चत्थं ।।१५०।। (उपदेशपदे ८५१-८५२) त्ति ।
तत एव सम्यगधीतागमत्वादेव हेतोर्यो विमलतरो बोधः शेषान् सम्यगधीतागामानपेक्ष्य स्फुटतरः प्रज्ञोन्मीलः तस्मात् सकाशात् तत्त्ववेदी जीवादिवस्तुविज्ञाता, उपशान्तः मनोवाक्कायविकारविकलः, प्रवचनवत्सलः यथानुरूपं साधु-साध्वी-श्रावकश्राविकारूपचतुर्वर्णश्रमणसङ्घवात्सल्यविधायी, सत्त्वहितरतः तत्तच्चित्रोपायोपादानेन सामान्येन सर्वसत्त्वप्रियकरणपरायणः, आदेयः परेषां ग्रायवचनचेष्टः, अनुवर्तकः चित्रस्वभावानां प्राणिनां गुणान्तराधानधियाऽनुवृत्तिशीलः, गम्भीरः रोषतोषाद्यवस्थायामप्यलब्धमध्यः, अविषादी न परीषहाद्यभिभूतः कायसंरक्षणादौ दैन्यमुपयाति, उपशमलब्ध्यादिसम्पत्रः, उपशमलब्धिः पर मुपशमयितुं सामर्थ्य लक्षणा, आदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते, ततस्ताभिः सम्पन्नः समन्वितः, प्रवचनार्थवक्ता यथावस्थितागमार्थप्रज्ञापकः, स्वगुर्वनुज्ञातगुरु पदः, स्वगुरु णा स्वगच्छनायकेनानुज्ञातगुरु पदः समारोपिताचार्यपदवीकः, चकारो विशेषणसमुच्चये, इतिशब्दो गुरुगुणेयत्तासूचकः । अत्र षोडश प्रव्रज्यार्हगुणाः, पञ्चदश पुनर्गुरुगुणा निरूपिता इति ।।४।।
આ પ્રમાણે પ્રવજ્યાને યોગ્ય જીવ કેવો હોય તે કહીને હવે પ્રવજ્યા આપનાર જીવ કેવો હોય તે કહે છે :
गुरुपहने योग्य 94 वो होय- (इत्थम्भूत एव) से प्रयाने योग्य ગુણોથી યુક્ત હોય તે જ પ્રવ્રાજકપદને (= ગુરુપદને) યોગ્ય છે, પણ બીજા પ્રકારનો જીવ પ્રવ્રાજક પદને યોગ્ય નથી. કારણ કે જે પ્રવ્રજ્યાને યોગ્ય ગુણોથી યુક્ત ન હોય તે સ્વયં ગુણરહિત હોવાથી પ્રવ્રજ્યા આપવા લાયક જીવમાં ગુણો રૂપ બીજ नाजी 3 नलि. (१) (विधिप्रतिपन्नप्रव्रज्यः) वेडेवाशे त विपथ क्षा
%
२१५