________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
પણ મિચ્છા મિ દુક્કડંથી સઘળા અશુભ વિચારોની શુદ્ધિનો સ્વીકાર કર્યો છે. કહ્યું છે કે - “સમિતિ - ગુપ્તિ આદિના ભંગ રૂપ બીજો અતિચાર “મિચ્છા મિ દુક્કડ રૂપ પ્રાયશ્ચિત્તથી શુદ્ધ થાય છે.” આથી સામાયિક લેવા કરતાં સામાયિક ન લેવું એ શ્રેષ્ઠ નથી. વળી- અતિચારવાળા અનુષ્ઠાનથી પણ અભ્યાસ કરવાથી કાળે કરીને નિરતિચાર અનુષ્ઠાન થાય છે, એમ પૂર્વાચાર્યો કહે છે. કહ્યું છે કે - "(अनुष्ठानोनl) सभ्यास ५। प्राय: घu वो सुधी ७२वाथी शुद्ध ने छे" (31)
अथ द्वितीयस्यआनयन-प्रेष्यप्रयोग-शब्द-रूपानुपात-पुद्गलक्षेपाः ॥३२॥१६५॥ इति ।
आनयनं च प्रेष्यश्च आनयनप्रेष्यौ, तयोः प्रयोगावानयन-प्रेष्यप्रयोगौ, तथा शब्द-रूपयोरनुपातौ शब्द-रूपानुपाती, आनयन-प्रेष्यप्रयोगौ च शब्द-रूपानुपातौ च पुद्गलक्षेपश्चेति समासः, तत्रानयने विवक्षितक्षेत्राद् बहिर्वर्तमानस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रप्रापणे प्रयोगः स्वयं गमने व्रतभङ्गभयादन्यस्य स्वयमेवाऽगच्छतः संदेशादिना व्यापारणमानयनप्रयोगः, तथा प्रेष्यस्य आदेश्यस्य प्रयोगो विवक्षितक्षेत्राद् बहिः प्रयोजनाय स्वयं गमने व्रतभङ्गभयादन्यस्य व्यापारणं प्रेष्यप्रयोगः, तथा शब्दस्य कासितादे रूपस्य स्वशरीराकारस्य विवक्षितक्षेत्राद् बहिर्व्यवस्थितस्याह्वानीयस्याह्वानाय श्रोत्रे दृष्टौ चानुपातः अवतारणमिति योऽर्थः, अयमत्र भावः- विवक्षितक्षेत्राद् बहिर्वर्त्तमानं कञ्चन नरं व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा काशितादिशब्दश्रावण-स्वकीयरूपसंदर्शनद्वारेण तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दानुपात-रूपानुपातावतिचाराविति, तथा पुद्गलस्य शर्करादेर्नियमितक्षेत्राद् बहिर्वतिनो जनस्य बोधनाय तदभिमुखं प्रक्षेपः पुद्गलप्रक्षेपः, देशावकाशिव्रतं हि गृह्यते मा भूदु गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः, प्रत्युत गुणः स्वयं गमने ईर्यापथविशुद्धः, परस्य पुनरनिपुणत्वात् तदशुद्धिरिति। इह चाद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति । - इहाहुवृद्धाः- दिग्व्रतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, तेषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात्, प्रतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वेन द्वादश व्रतानीति सङ्ख्याविरोधः स्यादिति। अत्र केचिदाहुः- दिग्व्रतसंक्षेप एव देशावकाशिकम्,
૧૭