________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
સ્થળે જાય. ત્યાં તળાવ આદિના કાંઠે બેસીને અંજલીથી (ખોબા ભરીને) સ્નાન કરે. તથા જેમાં કુંથુઆ વગેરે જીવો હોય તે પુષ્પો વગેરેનો ઉપભોગ ન કરે. આ અતિચાર ઈદ્રિયોના વિષયસંબંધી હોવાથી પ્રમાદાચરિત વ્રતનો જ છે.
અપધ્યાન આચરણ વ્રતમાં તો અનુપયોગ આદિથી અશુભ ધ્યાન થઈ જાય તો અતિચાર લાગે એ સ્વયં વિચારી લેવું.કંદર્પ વગેરે ઈરાદાપૂર્વક કરવામાં આવે तो नियमभंग ४ थाय. (30)
अथ प्रथमशिक्षापदस्ययोगदुष्प्रणिधाना-ऽनादर-स्मृत्यनुपस्थापनानि ॥३१॥१६४॥ इति । ___ योगदुष्प्रणिधानानि च अनादरश्च स्मृत्यनुपस्थानं चेति समासः । तत्र योगाः मनो -वचन - कायाः, तेषां दुष्पणिधानानि सावद्ये प्रवर्तनलक्षणानि योगदुष्प्रणिधानानि, एते त्रयोऽतिचाराः, अनादरः पुनः प्रबलप्रमादादिदोषाद् तथाकथञ्चित् करणं कृत्वा वाऽकृतसामायिककार्यस्यैव तत्क्षणमेव पारणमिति, स्मृत्यनुपस्थापनं पुनः स्मृतेः सामायिककरणावसरविषयायाः, कृतस्य वा सामायिस्य प्रबलप्रमाददोषादनुपस्थापनम् अनवतारणम्, एतदुक्तं भवति ‘कदा मया सामायिक कर्त्तव्यम्, कृतं मया सामायिक न वा' इत्येवंरूपस्य स्मरणस्य भ्रंश इति। ननु मनोदुष्प्रणिधानादिषु सामायिकस्य निरर्थकत्वादभाव एव प्रतिपादितो भवति, अतिचारश्च मालिन्यरूपो भवतीति कधं सामायिकाभावे? अतो भङ्गा एवैते नातिचाराः, सत्यम्, किन्त्वनाभोगतोऽतिचारत्वमिति। ननु द्विविधं त्रिविधेन सावधप्रत्याख्यानं सामायिकम्, तत्र च मनोदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव, तद्भङ्गजनितं प्रायश्चित्तं च स्यात, मनोदष्प्रणिधानं च दुष्परिहार्यम्, मनसोऽनवस्थितत्वाद्, अतः सामायिकप्रतिपत्तेः सकाशात् तदप्रतिपत्तिरेव श्रेयसीति, नैवम्, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नम्, तत्र मनसा सावधं न करोमीत्यादीनि षट् प्रत्याख्यानानि इत्यन्यतरभङ्गेऽपि शेषसद्भावान्न सामायिकस्यात्यन्ताभावः, मिथ्यादुष्कृतेन मनोदुष्प्रणिधान मात्रशुद्ध श्च, सर्वविरतिसामायिकेऽपि तथाऽभ्युपगतत्वात्, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम्, यदाह- बीओ उ असमिओ मि त्ति कीस सहसा अगुत्तो वा (आव० नि० १४३९) द्वितीयोऽतिचारः समित्यादिभङ्गरूपोऽनुतापेन शुद्धयतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति। किञ्च, सातिचारानुष्ठानादप्यभ्यासतः कालेन
१७४