________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
તથા શિષ્યહિત માટે પ્રાયઃ બધા સ્થળે મધ્યમ પદ્ધતિથી જ વિવક્ષા કરી હોવાથી બધાં વ્રતોમાં અતિચારોની પાંચ સંખ્યા જ ગણી છે. આથી અતિચારોની ચાર કે છ સંખ્યા નહિ ગણવી જોઈએ. (૨૭)
अथ प्रथमगुणव्रतस्यऊर्ध्वाधस्तिर्यग्व्यतिक्रम - क्षेत्रवृद्धि -स्मृत्यन्तर्धानानि ॥२८॥१६१॥ इति। ___ऊर्ध्वाधस्तिर्यग्व्यतिक्रमाश्च क्षेत्रवृद्धिश्च स्मृत्यन्तर्धानं चेति समासः, तत्र ऊर्ध्वाधस्तिर्यक्षेत्रव्यतिक्रमलक्षणास्त्रयोऽतीचाराः, एते च आनयने विवक्षितक्षेत्रात् परतः स्थितस्य वस्तुनः परहस्तेन स्वक्षेत्रप्रापणे, प्रेषणे वा ततः परेण, उभये वा आनयनप्रेषणलक्षणे सति संपद्यन्ते, अयं चानयनादावतिक्रमो 'न कारयामि' इत्येवंविहितदिग्व्रतस्यैव संभवति, तदन्यस्य तु आनयनादावनतिक्रम एव, तथाविधप्रत्याख्यानाभावादिति १-२-३। तथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतो वृद्धिः वर्द्धनम्, पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिः, किल केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम्, स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्द्धयतो व्रतसापेक्षत्वादतिचारः ४। तथा कथञ्चिदतिव्याकुलत्व-प्रमादित्व-मत्यपाटवादिना स्मृतेः स्मरणस्य योजनशतादिरूपदिक्परिमाणविषयस्यान्तर्धानं भ्रंशः स्मृत्यन्तर्धानमिति ५। इह वृद्धसंप्रदायः- ऊर्ध्वं यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कट: पक्षी वा वस्त्रमाभरणं वा गृहीत्वा व्रजेत्, तत्र तस्य न कल्पते गन्तुम्, यदा तु तत् पतितमन्येन वाऽऽनीतं तदा कल्पते ग्रहीतुम्, एतत् पुनरष्टापदोज्जयन्तादिषु भवेत्, एवमधः कूपादिषु विभाषा, तथा यत् तिर्यकप्रमाणं गृहीतं तत् त्रिविधेन करणेन नातिक्रमितव्यम्, क्षेत्रवृद्धिश्च न कर्त्तव्या, कथम्?, असौ पूर्वेण भाण्डं गृहीत्वा गतो यावत् तत् परिमाणम्, ततः परतो भाण्डमघु लभते इतिकृत्वा अपरेण यानि योजनानि तानि पूर्वदिग्परिमाणे क्षिपति, यदि च स्मृत्यन्तर्धानात् परिमाणमतिक्रान्तो भवेत् तदा ज्ञाते निवर्तितव्यं परतश्च न गन्तव्यम्, अन्योऽपि न विसर्जनीयः, अथानाज्ञया कोऽपि गतो भवेत् तदा यत् तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यते इति ।।२८।।
હવે પહેલા ગુણવ્રતના અતિચારો કહે છેઃ
૧૫