________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
तृतीयातिचारौ स्वदारसंतोषिण एव नेतरस्य, शेषास्तु द्वयोरपीति, एतदेव च सूत्रानुपाति, यदाह- सदारसंतोसस्स इमे पंच अइयारा (उपासक०) इत्यादि। भावना चेयमत्रभाटीप्रदानेनेत्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां भुञानस्य स्वकीयकल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न भङ्ग अल्पकालपरिग्रहाच्च वस्तुतोऽस्वकलत्रत्वाद् भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, अपरिगृहीतागमनं त्वनाभोगादिनाऽतिक्रमादिना वाऽतीचारः। परदार वर्जिनो नै तावतीचारौ, इत्वरकालपरिगृहीताऽपरिगृहीतयोर्वेश्यात्वेनानाथकुलाङ्गनायास्त्वनाथतयैवापरदारत्वादिति।
अपरे त्वाहुः- इत्वरपरिगृहीतागमनं स्वदारसंतोषवतोऽतिचारः, अपरिगृहीतागमनं तु परदारवर्जिनः, तत्र प्रथमभावना पूर्ववत्, द्वितीयभावना त्वेवम्- अपरिगृहीता नाम वेश्या, तां यदा गृहीतान्यसत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषसंभवात् कथञ्चित् परदारत्वाच्च भङ्गो वेश्यात्वाच्चाभङ्गो भङ्गाभङ्ग इत्यतिचारः ।
अन्ये पुनरन्यथा प्राहुः - परदारवज्जिणो पंच होन्ति तिन्नि उ सदारसंतुठे। इत्थीए तिन्नि पंच व भंगविगप्पेहिं नायव्वं ।।११२।। (सम्बोधप्रकरणे ७/४१)
इह भावना- परेण इत्वरकालं या परिगृहीता वेश्या तद्गमनमतिचारः परदारवर्जिनः, कथञ्चित् तस्याः परदारत्वात्, तथा अपरिगृहीतायाः अनाथकुलाङ्गनाया एव यद गमनं तदपि तस्यैवातिचारः, लोके परदारत्वेन तस्या रूढत्वात्, तत्कामुककल्पनया च परस्य भर्नादरभावेनापरदारत्वात्। शेषास्तूभयोरपि स्युः, तथाहि- स्वदारसंतोषिणः स्वकलत्रेऽपि तदितरस्य तु वेश्या-स्वकलत्रयोरपि यदनगरतं तत् साक्षादप्रत्याख्यातमपि न विधेयम्, यतोऽसावत्यन्तपापभीरूतया ब्रह्मचर्यं चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थं स्वदारसंतोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनायाः संभवादनङ्गरतमर्थतः प्रत्याख्यातमेव, एवं परविवाह-तीव्रकामाभिलाषावपीति, अतः कथञ्चित् प्रत्याख्यातेषु प्रवृत्तेरतीचारता तेषाम्।
अन्ये त्वनङ्गक्रीडामेवं भावयन्ति-स हि निधुवनमेव व्रतविषय इति स्वकीयकल्पनया तत् परिहरन् स्वदारसंतोषी वेश्यादौ परदारवर्जकस्तु परदारेष्वालिङ्गनादिरूपामनङ्गक्रीडां कुर्वन् कथञ्चिदेवातिचरति व्रतं व्रतसापेक्षत्वादिति। तथा स्वदारसंतोषवता स्वकलत्राद् इतरेण च स्वकलत्र-वेश्याभ्यामन्यत्र मनो-वाक्-कायैर्मैथुनं न कार्यं न च कारणीयमित्येवं यदा प्रतिपन्नं व्रतं भवति तदा परविवाहकरणतः तत्कारणमर्थतोऽनुष्ठितं भवति, तद्वती च मन्यते 'विवाह एवायं मया विधीयते, न मैथुनम्' इति ततो व्रतसापेक्षत्वादतिचार
૧૫૫