________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
अथ तृतीयस्य
स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रमहीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः ॥२५॥१५८॥ इति ।
स्तेनप्रयोगश्च तदाहृतादानं च विरुद्धराज्यातिक्रमश्च हीनाधिकमानोन्मानानि च प्रतिरूपकव्यवहारश्चेति समासः। तत्र स्तेनाः चौरास्तेषां प्रयोगो व्यापारणं 'हरत यूयम्' इत्यनुज्ञाप्रदानम् १। तथा तैराहृतस्य कुङ्कुमादिद्रव्यस्याऽऽदानं संग्रहः २। विरुद्धः स्वकीयस्य राज्ञः प्रतिपन्थी, तस्य राज्यं कटकं देशो वा, तत्रातिक्रमः स्वराजभूमिसीमातिलङ्घनेन क्रमणं प्रवेशः विरु द्धराज्यातिक्रमः ३। हीने स्वभावापेक्षाया न्यूने अधिके वा मानोन्माने कुडवादितुलारूपे भवतो हीनाधिकमानोन्माने ४। शुद्धन व्रीयादिना घृतादिना वा प्रतिरूपकं सदृशं पलभ्यादि वसादि वा द्रव्यं तेन व्यवहारो विक्रयरूपः स प्रतिरूपकव्यवहार इति ५। इह स्तेनप्रयोगो यद्यपि 'चौर्यं न करोमि न कारयामि' इत्येवंप्रतिपन्नव्रतस्य भङ्ग एव तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठथ? यदि वो भक्तकादि नास्ति तदाऽहं ददामि, भवदानीतमोषस्य च यदि विक्रायको न विद्यते तदाऽहं विक्रेष्यामि' इत्येवंविधवचनैश्चौरान व्यापारयतः स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतीचारः १। तथा स्तेनाहृतं काणकक्रयेण लोभदोषात् प्रच्छन्नं गृह्णश्चौरो भवति, यदाह
चौरश्चौरापको मन्त्री भेदज्ञः काणकक्रयी।
अन्नदः स्थानदश्चैव चौरः सप्तविधः स्मृतः ।।१११।। ( ) ततश्चौर्यकरणाद् व्रतभङ्गः, 'वाणिज्यमेव मया विधीयते, न चौरिका' इत्यध्यवसायेन च व्रतानपेक्षत्वाभावाद् न भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः २। विरुद्धराज्यातिक्रमस्तु यद्यपि स्वस्वामिनाऽननुज्ञातस्य परकटकादिप्रवेशस्य सामी-जीवादत्तं तित्थयरेणं तहेव य गुरूहिं (नवपदप्रक० ३८) इत्यदत्तादानलक्षणयोगेन विरुद्धराज्यातिक्रमकारिणां च चौर्यदण्डयोगेनादत्तादानरूपत्वाद् भङ्ग एव तथापि विरुद्धराज्यातिक्रमं कुर्वता 'मया वाणिज्यमेव कृतं न चौर्यम्' इति भावनया व्रतसापेक्षत्वात् लोके च चौरोऽयमिति व्यपदेशाभावादतिचारोऽयमिति ३। तथा हीनाधिकमानोन्मानव्यवहारः प्रतिरूपकव्यवहारश्च परव्यंसनेन परधनग्रहणरूपत्वाद् भङ्ग एव, केवलं 'क्षत्रखननादिकमेव चौर्यम्, कूटतुलादिव्यवहार-तत्प्रतिरूपव्यवहारौ तु वणिक्कलैव' इति स्वकीयकल्पनया व्रतरक्षणोद्यततयाऽतिचार इति ४-५। अथवा स्तेनप्रयोगादयः पञ्चाप्यमी व्यक्तचौर्यरूपा
૧૫૧