________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
अथ द्वितीयस्य
मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखक्रिया- .. न्यासापहार-स्वदारमन्त्रभेदाः ॥२४॥ १५७॥ इति । मिथ्योपदेशश्च रहस्याभ्याख्यानं च कूटलेखक्रिया च न्यासापहारश्च स्वदारमन्त्रश्चेति समासः। तत्र मिथ्योपदेशो नाम अलीकवादविषय उपदेशः ‘इदमेवं चैवं च ब्रूहि' इत्यादिकमसत्याभिधानशिक्षणम् १। रहस्याभ्याख्यानं रहः एकान्तस्तत्र भवं रहस्य रहोनिमित्तं तच्च तदभ्याख्यानं चेति समासः, एतदुक्तं भवति- रहसि मन्त्रयमाणानवलोक्याभिधत्ते ‘एते हि इदं चेदं च राजादिविरुद्ध मन्त्रयन्ते' इति २। कूटलेखस्य असद्भूतार्थसूचकाक्षरलेखनस्य करणं कूटलेखक्रिया ३। न्यासापहार इति, न्यासः परगृहे रूपकादेर्निक्षेपः, तस्य अपहारः अपलापः ४। स्वदारमन्त्रभेद इति, स्वदाराणाम् उपलक्षणत्वान्मित्रादीनां च मन्त्रस्य गुप्तभाषितस्य भेदो बहिःप्रकाशनम् इति ५। अत्र च मिथ्योपदेशो यद्यपि 'मृषा न वादयामि' इत्यत्र, 'न वदामि न वादयामि' इत्यत्र वा व्रते भङ्ग एव, 'न वदामि' इति व्रतान्तरे तु न किञ्चन, तथापि सहसाकाराऽनाभोगाभ्यामतिक्रम-व्यतिक्रमा-ऽतिचारैर्वा मृषावादे परप्रवर्तनव्रतस्यातिचारोऽयम, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयम्, व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्तनाच्च भग्नाभग्नरूपत्वाद् व्रतस्येति ।
ननु रहस्याभ्याख्यानमसदोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद् भङ्ग एव, न त्वतिचार इति, सत्यम्, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा संक्लेशाभावेन व्रतानपेक्षत्वाभावान्न व्रतस्य भङ्गः, परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः, यदा पुनस्तीव्रसंक्लेशादभ्याख्याति तदा भङ्गो व्रतनिरपेक्षत्वात्, आह च -
सहसाभक्खाणाई जाणतो जइ करेइ तो भंगो। जइ पुणऽणाभोगाईहितो तो होइ अइयारो ।।११०।। ( )
कूटलेखकरणं तु यद्यपि 'कायेन मृषावादं न करोमि' इत्यस्य 'न करोमि न कारयामि' इत्यस्य वा व्रतस्य भङ्ग एव, व्रतान्तरे तु न किञ्चन, तथापि सहसाकारादिनाऽतिक्रमादिना वाऽतिचारः, अथवा मृषावाद इति मृषाभणनं मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया मुग्धबुद्धेतसव्यपेक्षस्यातिचार इति ।
न्यासापहारे पुनरदत्तादानं साक्षादेव भवति, मृषावादव्रतातिचारत्वं चास्य ‘न त्वदीयं मम समीपे किञ्चिदपि' इत्यनाभोगादिनाऽपहृवानस्य स्यादिति।
१४८