________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
पाटनम, तथाऽतीव भारोऽतीभारः प्रभूतस्य पूगफलादेर्गवादिपृष्ठादावारोपणम, तथा अन्न-पानयोः भोजनोदकयोनिरोधः व्यवच्छेदः अन्नपाननिरोधः, एते च क्रोधलोभादिकषायमलकलङ्कितान्तःकरणस्य प्राणिप्राणप्रहाणनिरपेक्षस्य सतो जन्तोरतिचारा भवन्ति, सापेक्षस्य तु बन्धादिकरणेऽपि सापेक्षत्वान्नातिचारत्वमेषामिति । अत्र चायमावश्यकचूाधुक्तो विधिः- बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यर्थायानर्थाय वा, तत्रानर्थाय तावन्नासौ विधातुं युज्यते, अर्थाय पुनरसौ द्विविधः स्यात्, सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो नाम यन्निश्चलमत्यर्थं बध्यते, सापेक्षः पुनर्यद् दामग्रन्थिना यश्च बद्धः सन् शक्यते प्रदीपनकादिषु विमोचयितुं वा छेत्तुं वा, एवं तावच्चतुष्पदानां बन्धः। द्विपदानां पुनरेवम्- दासो वा दासी वा चौरो वा पाठादिप्रमत्तपुत्रो वा यदि बध्यते तदा सविक्रमेणैव बन्धनीयो रक्षणीयश्च तथा यथाऽग्निभयादिषु न विनश्यति। तथा ते किल द्विपद-चतुष्पदाः श्रावकेण संग्रहीतव्याः ये अबद्धा एवासत इति १। वधोऽपि तथैव, नवरं निरपेक्षवधो निर्दयताडना, सापेक्षवधः पुनरेवम्- आदित एव भीतपर्षदा श्रावकेण भवितव्यम्, यदि पुनर्न करोति कोऽपि विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति २। छविच्छेदोऽपि तथैव, नवरं निरपेक्षो हस्तपाद-कर्ण-नासिका यन्निर्दयं छिनत्ति, सापेक्षः पुनर्यद् गण्डं वाऽरुर्वा छिन्द्याद्वा दहेद्वेति ३। तथाऽतिभारो नारोपयितव्यः, पूर्वमेव हि या च द्विपदादिवाहनेन जीविका सा श्राद्धेन मोक्तव्या, अथान्याऽसौ न भवेत् तदा द्विपदो यं भारं स्वयमुत्क्षिपत्यवतारयति च तं वायते, चतुष्पदस्य तु यथोचितभारादसौ किञ्चिदूनः क्रियते, हल-शकटादिषु पुनरूचितवेलायामसौ मुच्यत इति ४। तथा भक्त-पानव्यवच्छेदो न कस्यापि कर्तव्यः, तीक्ष्णबुभुक्षो यन्यथा म्रियते, सोऽप्यर्थानादिभेदो बन्धवत् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थं स्यात, अपराधकारिणि च वाचैव वदेत् 'अद्य ते न दास्यते भोजनादि', शान्तिनिमित्तं वोपवासं कारयेत् ५। किं बहुना?, यथा मूलगुणस्य प्राणातिपातविरमणस्यातिचारो न भवति तथा सर्वत्र यतनया यतितव्यमिति ।
ननु प्राणातिपात एव व्रतिना प्रत्याख्यातः, ततो बन्धादिकरणेऽपि न दोषो, विरतेरखण्डितत्वात्। अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात्। किञ्च, बन्धादीनां प्रत्याख्येयत्वे विवक्षितव्रतेयत्ता विशीर्येत, प्रतिव्रतं पञ्चानामतिचारव्रतानामाधिक्यादित्येवं न बन्धादीनामतिचारतेति, अत्रोच्यते, सत्यम्, प्राणातिपात एव प्रत्याख्यातो न बन्धादयः, केवलं त प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता इव द्रष्टव्याः, तदुपायत्वात् तेषाम्, न च बन्धादिकरणेऽपि व्रतभङ्ग, किं त्वतिचार एव,
१४४