________________
ધર્મબિંદુપ્રકરણ
ત્રીજો અધ્યાય
વ્રતોના સ્વીકાર વિના અણુવ્રતોની તેવા પ્રકારની શુદ્ધિ થતી નથી. (૧૭)
तथा - सामायिक-देशावकाश-पोषधोपवास-ऽतिथि
संविभागश्चत्वारि शिक्षापदानि ॥१८॥१५१॥ इति ॥ समानां मोक्षसाधनं प्रति सदृशसामर्थ्यानां सम्यग्दर्श-ज्ञान-चारित्राणामायो लाभः समस्य वा रागद्वेषान्तरालवर्तितया मध्यस्थस्य सतः आयः सम्यग्दर्शनादिलक्षणः समायः, साम्नो वा सर्वजीवमैत्रीभावलक्षणस्य आयः सामायः, सर्वत्र स्वार्थिकेकण्प्रत्ययोपादानात् सामायिक सावद्ययोगपरिहार - निरवद्ययोगानुष्ठानरूपो जीवपरिणामः। देशे विभागे प्राक्प्रतिपन्नदिग्व्रतस्य योजनशतादिपरिमाणरूपस्य अवकाशो गोचरो यस्य प्रतिदिनं प्रत्याख्येयतया तत् तथा, पोषं धत्ते पोषधः अष्टमी - चतुर्दश्यादिः पर्वदिवसः, उपेति सह अपवृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैर्वासः उपवासः, यथोक्तम् -
अपवृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह। उपवासः स विज्ञेयो न शरीरविशोषणम् ।।१०७।। (ब्रह्मप्रकरणे २४१) इति ।
ततः पोषधेषूपवासः पोषधोपवासः। अतिथयो वीतरागधर्मस्थाः साधवः साध्व्यः श्रावकाः श्राविकाश्च, तेषां न्यायागतकल्पनीयादिविशेषणानामन्नपानादीनां संगतवृत्त्या विभजनं वितरणं अतिथिसंविभागः, तथा च उमास्वातिवाचकविरचितश्रावकप्रज्ञप्तिसूत्रं यथा- अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्च, एतेषु गृहमुपागतेषु भक्त्याऽभ्युत्थाना-ऽऽसनदान-पादप्रमार्जन-नमस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्न-पान-वस्त्रौषधा-ऽऽलयादिप्रदानेन संविभागः कार्यः ( ) इति, ततः सामायिकं च देशावकाशं च पोषधोपवासश्चातिथिसंविभागश्चेति समासः, चत्वारीति चतुःसंख्यानि, किमित्याह- शिक्षापदानि, शिक्षा साधुधर्माभ्यासः, तस्य पदानि स्थानानि भवन्ति ।।१८।।
સામાયિક, દશાવકાશ, પૌષધોપવાસ અને અતિથિસંવિભાગ એ ચાર શિક્ષાપદો છે.
સમનો આય=લાભ તે સમાય. અહીં સમ એટલે મોક્ષને સાધવામાં સમાન • સામર્થ્યવાળા જ્ઞાન, દર્શન અને ચારિત્ર. સમનો એટલે કે જ્ઞાન-દર્શન-ચારિત્રનો
• शान-शन मने यारित्र मेत्री मणीने ४ मोक्ष- साधन बने . माटे शान - शन - ચારિત્ર મોક્ષને સાધવામાં સમાન સામર્થ્યવાળા છે.
૧૩૯