________________
ધર્મબિંદુપ્રકરણ
બીજો અધ્યાય
बध्यमान-बन्धने एव व्याचष्टेबध्यमान आत्मा, बन्धनं वस्तुसत् कर्म ॥४८॥१०६॥ इति ।
तत्र बध्यमानः स्वसामर्थ्यतिरोधानेन पारवश्यमानीयमानः, क इत्याह- आत्मा चतुर्दशभूतग्रामभेदभिन्नो जीवः प्रतिपाद्यते, तथा बध्यते मिथ्यात्वादिभिर्हेतुभिरात्मा अनेनेति बन्धनम्, किमित्याह- वस्तुसतु परमार्थतो विद्यमानं कर्म ज्ञानावरणादि अनन्तानन्तपरमाणुप्रचयस्वभावमत एव मूर्तप्रकृतीति। अत्राऽऽत्मग्रहणेन सांख्यमतनिरसमाह, यतस्तत्रोच्यते -
आत्मा न बध्यते नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ।।९२।। (सांख्यकारिका ६२) वस्तुसद्ग्रहणेन तु सौगतमतस्य, यतस्तत्रापि पठ्यते - चित्तमेव हि संसारो रागादिक्लेशवासितम्।
तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ।।९३।। (शास्त्रवार्ता० ४०४) रागादिक्लेशवासितमिति रागादिक्लेशैः सर्वथा चित्तादव्यतिरिक्तैर्वासितं संस्कृतम्। एवं हि बध्यमानान्न भिन्नं वस्तुसत्कर्मेत्यभ्युपगतं भवति। तत्र प्रकृतेरेव बन्ध-मोक्षाभ्युपगमे आत्मनः संसारा-ऽपवर्गावस्थयोरभिन्नैकस्वभावत्वेन योगिनां यम-नियमाद्यनुष्ठानं मुक्तिफलतयोक्तं यद् योगशास्त्रषु तद् व्यर्थमेव स्यात्। बौद्धस्यापि चित्तादव्यतिरिक्तकर्मवादिनोऽवस्तुसत्त्वमेव कर्मणः स्यात्, यतो यद्यतोऽव्यतिरिक्तस्वरूपं तत् तदेव भवति, न च लोके तदेव तेनैव बध्यते इति प्रतीतिरस्ति, बध्यमान-बन्धनयोः पुरुष-निगडादिरूपयोः भिन्नस्वभावयोरेव लोके व्यवह्रियमाणत्वात्। किंच, चित्तमात्रत्वे कर्मणोऽभ्युपगम्यमाने संसारा-ऽपवर्गयोर्भेदो न प्राप्नोति, चित्तमात्रस्योभयत्राप्यविशेषात् ॥४८॥
બંધાનાર અને બંધનને વિશેષ રૂપે કહે છે :
બંધાનાર આત્મા છે અને બંધન પરમાર્થથી વિદ્યમાન એવું કર્મ છે. પોતાનું સામર્થ્ય ઢંકાઈ જવાના કારણે પરાધીન કરાતો આત્મા બંધાનાર છે. (= બંધાય છે.) બંધાનાર આત્મા ચૌદ ભેદોથી ભિન્ન ભિન્ન છે. આત્માના આ ચૌદ ભેદોની શાસ્ત્રમાં “ભૂતગ્રામ” સંજ્ઞા છે. મિથ્યાત્વ વગેરે હેતુઓથી આત્મા જેના વડે • ચૌદ ભૂતગ્રામ આ પ્રમાણે છે:- સૂક્ષ્મ અને બાદર એકેંદ્રિય, ત્રણ વિકલૈંદ્રિય, સંજ્ઞી અને અસંસી पंद्रिय मेमसात ५.२ ५या. सातना पर्याप्त मने अपर्याप्त मेम हो पाथी (७४२=) ૧૪ થાય.
८४