________________
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता
२०५ च्युतसम्यक्त्वाः सङ्ख्यातकालच्युतसम्यक्त्वाश्च प्रत्येकं दश दश सिध्यन्ति ११ । अन्तरद्वारेऽल्पविषयत्वात्सूत्रेऽनुक्तमपि दर्श्यते । अन्तरद्वारे एको वा सान्तरः सिध्यति । बहवो वा तत्र बहवो यावदष्टशतम् १२ ॥१६॥
अंड १०८ दुरहिअ १०२ सय छर्नुई, चुलसी दुर्गसयरि सट्ठि अडयाला। बत्तीस इक्क दुति चउ,
पण' छगई सग अड निरंतरिया १३ ॥१७॥ अनुसमयद्वारे अष्टाधिकं शतम्, व्यधिकं शतं चेत्यर्थः । अष्टोत्तरशतादयोऽष्टौ यथासङ्ख्यं एकसमयादीन् (दि) यावदष्टौ समयान्निरन्तरं सिध्यन्तीति सम्बन्धः । व्युत्तरशतं यावदष्टशतं सिध्ये(ध्य)त् एकसमयमेव यावल्लभ्यते, ततः परतो नियमादन्तरं भवति । तथा सप्तनवत्यादयो व्यधिकशतपर्यन्ता द्वौ समयौ यावन्निरन्तरं सिध्यन्ति, ततः परमवश्यमन्तरम् । एवं पञ्चाशीत्यादयः षण्णवतिपर्यन्तास्त्रीन् समयान् यावत् । त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ताश्चतुरः समयान् यावत् । एकषष्ट्यादयो द्वासप्ततिपर्यन्ताः पञ्चसमयान् यावत् । एकोनपञ्चाशदादयः षष्टिपर्यन्ताः षट्समयान् यावत् । त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ताः सप्त समयान् यावत् । तथा एकादयो द्वात्रिंशत्पर्यन्ता अष्टौ समयान् यावन्निरन्तरं सिध्यन्तः प्राप्यन्ते, ततः परमवश्यमन्तरम् । अत्रायमाशयः-आद्यसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिध्यन्तः प्राप्यन्ते । द्वितीयसमयेऽपि जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् । एवं तृतीयसमये यावदष्टमसमयेऽपि । ततः परमवश्यमन्तरमेव । एवं सर्वत्रापि योज्यम् १३ ॥१७॥
गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यम् । तदेवमुक्तं द्रव्यप्रमाणं मौलं द्वितीयं द्वारम् । साम्प्रतं क्षेत्रद्वारं स्पर्शनाद्वारं चैकगाथयाह
लोअग्गठिआ सिद्धा, इह बुंदि चइय पडिहय अलोए ३१ फुसइ अणंते सिद्धे, सव्वपएसेहि सो सिद्धो ४ ॥१८॥
१. मौलं क्षेत्रद्वारम् । २. मौलं स्पर्शनाद्वारम् । इदं द्वारद्वयं पञ्चदशसु द्वारेषु स्वबुद्ध्या भावनीयं सूत्रे सुगमत्वान्नोक्तम् ।