SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ९ श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता १९९ सिद्धाः । विवक्षितसिद्धत्वप्रथमसमयात्प्राग् द्वितीयादिषु समयेष्वनन्तामतीताद्धां यावद्वर्त्तमाना इत्यर्थः । सन्निकर्षो नाम संयोगः । हुस्वदीर्घयोरिव विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पतया बहुत्वेन वा अवस्थानरूपः सम्बन्धः । उभयेऽपि सिद्धाः । केषु विषयेषु विचारणीयाः ? इत्याह-'इमेसु' इति एषु पञ्चदशसु द्वारेषु ॥३॥ तान्येवाहखित्ते काले गइ वेअ तित्थ लिंगे चरित्त बुद्धे य । नाणोगाहुक्कस्से, अंतरमणुसमयगणणअप्पबहु ॥४॥ 'उक्कस्से' इति उत्कर्षद्वारम् ॥४॥ प्रथमत एषु पञ्चदशसु द्वारेषु सत्पदप्ररूपणयाऽनन्तरसिद्धाश्चिन्त्यन्तेखित्ति तिलोगे १ काले, सिझंति अरेसु छसुवि संहरणा । अवसप्पिणि ओसप्पिणि, दुतिअरगे जम्मु तिदुसु सिवं २ ॥५॥ क्षेत्रद्वारे त्रिलोके । तत्रोर्ध्वलोके पण्डकवनादौ, अधोलोकेऽधोलौकिकग्रामेषु, तिर्यग्लोके मनुष्यक्षेत्रे सिध्यन्तीति क्रिया सर्वत्र योज्या । संहरणात् समुद्रनदीवर्षधरादिष्वपि । तीर्थकृतः पुनः संहरणाभावात् अधोलौकिकग्रामेषु तिर्यग्लोके वा पञ्चदशसु कर्मभूमिषुरे १। कालद्वारेऽवसर्पिण्यामुत्सर्पिण्यां च षट्स्वप्यरकेषु सिध्यन्ति । देवादिकृतसंहरणादप्येवमेव । जन्माश्रित्य पुनरवसर्पिण्युत्सर्पिण्योर्यथासङ्ख्यं द्वयोस्त्रिषु चारकेषु जन्म । त्रिषु द्वयोश्च शिवं मोक्षः । अयमर्थः-अवसर्पिण्यां जन्म चरमशरीरिणां नियमतस्तृतीयचतुर्थारकयोः । सिद्धिगमनं तु एवमेव । परं केषांचित्पञ्चमारकेऽपि यथा जम्बूस्वामिनः । उत्सर्पिण्यां तु द्वितीयतृतीयचतुर्थारकेषु जन्म । सिद्धिगमनं तु तृतीयचतुर्थयोरेव । महाविदेहेषु पुनः कालः सदैव सुषमदुःषमारूप: तद्वक्तव्यताभणनेनैव भणितो द्रष्टव्यः । तीर्थकृतां पुनरवसर्पिण्यामुत्सर्पिण्यां च जन्म सिद्धिगमनं च सुषमदुःषमादुःषमसुषमारूपयोरेवारकयोर्जेयम् २ ॥५॥ १. 'गीतिच्छन्दः' । २. इतोऽग्रे 'न शेषस्थानेषु' इत्यधिकं क्वचित् ।।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy