SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् ऋषभादिवीरचरमान् इति, एतदपि अतीतानागतजिनोपलक्षणार्थं, गुरुपर्वक्रमसम्बन्धं चानेनाह । किंविशिष्टास्ते ? इत्याह-'तमरयरहिए' तमोरजोरहितान् इति, अत्र तमः-छादकत्वात् संसारप्रतिबन्धकृत्त्वाच्च ज्ञानावरणादिघातिचतुष्टयं परिगृह्यते, रजो-भवोपग्राहि कर्म, अथवा पूर्वबद्धं तमः बध्यमानं तु रजः, ताभ्यां रहितास्तमोरजोरहिता इति, अनेनापि मुक्त्यवस्थितेः भूतावस्था कथ्यते अर्थतः प्रयोजनं सूचयति, तदर्थत्वात्सकलप्रयासस्येति । तान् प्रणम्य, किम् ? २इत्युपरिष्टात्सम्बध्यत इति गाथार्थः ॥१॥ एवं तावद् येभ्यः समुद्भवत्यागमस्तान् गुरूनभिधाय साम्प्रतं येभ्यः परम्परयाऽऽगतस्तेषामपि नमस्कारार्हत्वात्स्तवमाह "सुणिउणआगमणिहसे" इत्यादि । सुनिपुणो-जीवाद्यशेषपदार्थाभिधाने कुशलो य आगमः-आप्तवचनं तस्य निकषभूताः-कषपट्टका ये ते सुनिपुणागमनिकषा इति, अनेन युगप्रधानागमत्वं कथ्यते । तथा 'सुनिपुणपरमार्थसूत्रग्रन्थधरान्' इत्यत्र परमः-पूजितोऽनन्तगमपर्यायात्मकत्वादावा]अर्थः परमार्थः, सकलप्रमाणनयपरिच्छेदित्वात्सुनिपुणः परमार्थो ययोः सूत्रग्रन्थयोः तौ धारयन्तीति सुनिपुणपरमार्थसूत्रग्रन्थधरा इति, एतत् सकलोपाध्यायाचार्यसङ्ग्रहार्थम् । किमाद्यास्ते? इत्याह-'चोद्दसपुव्विगमाई' यावज्जघन्यसूत्रधरा इति, क्रमेण-आनुपूर्व्या सर्वान् प्रणम्येति । पुनः क्रियाभिधानं स्थविरावलिकादिभेदप्रतिपादनार्थमिति गाथार्थः ॥२॥ इदानीमभिधेयप्रतिपादनार्थमाह "णिक्खेवणिरुत्तीहि य" इत्यादि । निक्षेपनिरुक्तिभ्यां किमादिभिश्च षड्भिरनुयोगद्वारैः सत्पदप्ररूपणादिभिः अष्टाभिश्चानुयोगद्वारैः क्षेत्रादिमार्गणाद्वारेषु चाधारेषु 'सिद्धानां' प्राभृताभिधेयतया प्रक्रान्तानां भगवत्यागमे द्रव्यार्थादेशादनाद्यपर्यवसानतया ये वर्णिता भेदास्तीर्थकरगणधरैस्तान् वर्णया १. 'च' ख पुस्तके । २. निक्षेपनिरुक्तीत्यादिगाथोक्तान् भेदान् वर्णयामीति तृतीयगाथया सम्बध्यत इति ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy