SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [ यत्किञ्चिन्निवेदनम्। इदं गम्भीरार्थसार्थं सिद्धवक्तव्यताप्रधानं सिद्धप्राभृताभिधानं चिरत्नं प्रकरणरत्नं कैः सूरिशिरोमणिभिः कदा च निर्मितम् ? इति जिज्ञासा तु एतेषां नामाधुपलम्भाभावेन शास्त्रान्तरेऽपि क्वापि तथाविधोल्लेखादर्शनेन च न परिशाम्यति। ___ अस्य प्रकरणस्य विज्ञातानेकजिनागमरहस्या विवृतिकारका अपि कतमं भूमण्डलं मण्डयामासुः किं नामधेयाश्चाभूवन् ? इत्येतद्विषयो निर्णयोऽप्यनन्तरोदितकारणेन कर्तुं न शक्यते, किन्तु ११३८ मितसंवत्सरे तालपत्रोपरिलिखितपुस्तकोपलम्भान्नैतेऽर्वाचीना इति निर्णीयते। ____ अस्य प्रकरणस्य मुद्रितविवृतितोऽपरा चिरन्तनाचार्यसन्दर्भिता टीकाप्यासीदिति मुद्रितविवृतिमध्यवर्तिशाक्ष्युपदर्शनेन स्पष्टं स्पष्टीभवति, परं सा साम्प्रतं क्वापि दृष्टिपथपान्थतां न समायाति । सान्वर्थस्यास्य प्रकरणस्य विषयविवेचनं तु विद्वद्वर्यैरस्य परिभावने स्वयमेवावभोत्स्यत इति । ____ अस्य मुद्रणवैषयिकं द्रव्यसाहाय्यं तु श्रीमद्वल्लभविजयमुनिवर्यप्रशिष्येण प्रज्ञांसेत्युपाधिधारिणा श्रीमता उमङ्गविजयगणिना तखतगढनिवासिश्रावकेभ्य उपदेशद्वारा कारितम् । यैः तखतगढवास्तव्यैः पुस्तकोद्धाररसिकमानसैर्महाशयैरस्य मुद्रणे द्रव्यसाहाय्यं दत्तं तेषां नामावली अध उपन्यस्यते - श्रीतखतगढसङ्घः, श्रेष्ठि-गुमानमल लखमाजी, श्रेष्ठि-सेसमल इंदाजी, श्रेष्ठि-स्वरूपचन्द्र फूआजी। ___ अस्य संशोधनसमये पुस्तकानां पञ्चकं समासादितम् । तत्राद्यं कसञ्ज्ञकं परमगुरुप्रवर्तकश्रीमत्कान्तिविजयमुनिचित्कोशसम्बन्धि नूतनमशुद्धं च । द्वितीयं पुनः खसञ्ज्ञकं प्रवर्तकश्रीमत्कान्तिविजयान्तेवासिमुनिश्रीभक्तिविजयसत्कं
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy