________________
२२४ [ श्रीस्याद्यन्तरत्नाकरे - ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ]
परिमाणभेदेन द्रव्यभेदस्याऽनभ्युपगमात, अभ्युपगमे वा समानकालतया व्यक्त न्तरस्य विशेषणात् । तथा च यस्यां व्यक्तौ देवदत्तस्वं कथ्यते तत्समानकाल मन्या देवदत्तव्यतिर प्रसिद्धेति न देवदत्तत्वं जातिः, ब्राह्मणत्वं तु जातिस्तत्समान कालं तदीयपितृभ्रात्रादिषु तस्य सुग्रहस्वादिति ॥
तृतीयजातिग्याख्यानम् - औपगवादीनां सम्बन्धिशब्दानां कठादीन क्रियाशब्दानां चाऽर्थस्याऽसत्यपि जातित्वे, शास्त्रे जातिनिबन्धनं कार्यमिष्टमिति तत्र पारिभाषिकजातित्वसम्पत्तये तृतीयलक्षणस्याssवश्यकता |
>
गोवलक्षणा चरणलक्षणा च तृतीया जाति:; तत्र द्विविधं गोत्रम्, प्रवराध्यायपठितम पत्यप्रत्ययाभिधेयं च यदाह - "अनन्तरापत्यं वृद्धापत्यं युवापत्यं च गोत्रम्" इति । इदमेव चात्र गृह्यते, अस्यैव पारिभाषितत्वात् तदभिधायिनोऽपत्यप्रत्ययान्ता अभेदोपचारात् ते चाऽपत्याऽपत्यवत् सम्बन्धद्वारेणापत्बे प्रवृत्ता अपि सम्बन्धिशब्दाः ।
चरणशब्दाश्च कठादयः क्रियाशब्दाः, कठादिप्रोक्ताध्ययनाय यथास्वं व्रतचरण क्रियानिमित्तत्वेन प्रवृत्तत्वात् तदर्थस्य लोके जातित्वेनाऽप्रसिद्धस्याऽपि ज्ञातिकार्य प्रसाधनाय वाचनिकं जातिस्वमभ्युपेयते; तेन 'नाडायनी, चारायणी, कठी' इति जातिलक्षणो ङीः सिद्धो भवति ।
,
इदमत्र हृदयम्, – अपत्याधिकारादन्यत्र लौकिकं गोत्रमिति गोत्रशब्दे - नाऽपत्यप्रत्ययान्तः शब्दो ग्राह्यः एवं चरणशब्दोऽध्ययनवचनोऽध्ययनाय व्रताssचरणवचनोऽपि वा इहोपचारादध्येतृषु वर्तते । तथा च, अपत्यप्रत्ययान्तः शाखाध्येतृवाची च शब्दो जातिकार्य लभते इत्यर्थः ।
"
कयाचिदाकृत्या 'एष नाडायनः कठो वा' इति कथनेऽपि भकृत्यन्तरे निर्माता विरहान्नानयोः प्रथमलक्षणेन सङ्ग्रहः, एवम् 'नाडायनं बहूवृचम्' इति नपुंसक प्रयोगदर्शनादनयोः सर्वलिङ्गवेनाऽत्रिलिङ्गस्वविरहाच द्वितीयलक्षणेन
सङ्ग्रह इति तृतीयलक्षस्याssवश्यकता ।
नभ्वस्मिन् लक्षणे कक्षणयुगलं प्रविष्टमिति चत्वारि जातिलक्षणानीति