________________
२२२ [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ]
॥ अथ जातिनिरूपणम् ॥ जातिशब्देन किं ग्राह्यमित्याकाङ्क्षायां प्रतिवचनम्
जातिशब्दस्य सामान्यमभिन्नबुद्धिध्वनिप्रसवनिबन्धनमर्थः,[बुद्धिः ज्ञानम् , ध्वनिः शब्दप्रयोगः, प्रसवः जननम् अभिन्ना-समाना ये बुद्धिध्वनिप्रसवास्तेषां निबन्धनम्=कारणं, यत् सामान्यम्=अनुगतस्वरूपं तत् जातिशब्दस्यार्थः] तत्र प्रत्ययविधानादिरूपकार्याऽसम्भवात् , जातिशब्देन जातिवाचकः शब्दो ग्राह्यो न तु केवलं तदर्थः । अत्रापि जकारोत्तराकारोत्तरेकारस्वरूपानुपूर्वीलक्षणं स्वरूपं न ग्राह्यम् “जातेरयान्तनित्यस्त्रीशूद्रात् ' (२. ४, ५४) इत्यत्र यान्तस्त्रीशूद्रवर्जनवैयर्थ्यात् । तथा च जातिवाचको यः कश्चित् शब्दः सोऽत्र जातिशब्देन ग्राह्यः ॥
जातिशब्दस्य का व्युत्पत्तिः, तल्लभ्यश्च कोऽर्थो ग्राह्य इत्याका. ङ्कायां प्रतिवचनम्
जायेतेऽनया भिन्नेषु वस्तुषु अभिन्नाभिधानप्रत्ययौ [सदृश शब्दप्रयोगज्ञाने] इति जातिः ।
जातिशब्देन निरुत्तव्युत्पत्तिलब्धसामान्यमात्रग्रहणे शुक्लादीनामपि गुणादिसामान्योपादायिनां ग्रहणं प्रसज्येत । न चेष्टापत्तिः, सूत्रे जातिग्रहणस्यानर्थक्यं स्यात् । ननु जातिग्रहणेन संज्ञाशब्दानां निवृत्त्या, संज्ञानिवृत्तेरेव फलस्वात् कथमानर्थक्यमिति चेन्न, संज्ञाशब्दनिवृत्तिरेवाभिमता चेत्तदा 'असंज्ञायाम्' इत्येतस्करणेनाऽपि सा भविष्यतीति जातिशब्दस्याऽनर्थक्यं तदवस्थमेवः तथा च जातिशब्दोपादानाद् विशिष्टैव जातिाया ॥
नन्वत्र कीदृशी जातिः? कियन्तश्च तद्भेदाः? इत्याङ्क्षायां प्रतिवचनम्जातिस्निधा-१. काचित् संस्थानव्यङ्गया, यथा-गोत्वादिः ॥
२. सकृदुपदेशव्यङ्गयत्वे सत्यत्रिलिङ्गान्या, यथा-ब्राह्मणत्वादिः ।
३. गोत्रचरणलक्षणा च तृतीया, यथा-औपगवी, कठी, इत्यादिः । . प्रथमजातिव्याख्यानम्-संस्थानेन=अवयवरचनाविशेषेण व्यङ्ग्या बोध्या