SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं डीप्रत्ययान्तं प्रकरणम् ] २१३ (२४७) ईकारान्तः स्त्रीलिङ्गः 'चन्द्रभागी' शब्दः॥ एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् । शब्दसाधनिका त्वियम्-अत्र चन्द्रभागशब्दान्नद्यां "नवा शोणादेः" [२, ४, ३१] इति वैकल्पिको डीभवतीति 'चन्द्रभागो' प्रचन्द्रभागा नाम नदी । नद्या अन्यत्र चन्द्रभागा नाम देवता ॥ अनद्यामिति केचित्-चन्द्रभागी चन्द्रभागा काचित, नद्या तु चन्द्रभागा । अण्णन्तानद्यामित्येके-+चान्द्रभागी चान्द्रभागा नाम नदी। अनद्यां तु नित्यं डी:-चान्द्रभागी छाया । अन्ये तु अण्णन्तादेवार्थभेदेन विकल्पमिछन्ति । नद्यामाप् प्रत्ययोऽन्यत्र डीप्रत्ययः-चान्द्रभागा नदी, चान्द्रभागी वनराजिः ॥ (२४८) ईकारान्तः स्त्रीलिङ्गः 'अतिकेशी' शब्दः ॥ ( केशानतिक्रान्ता-अतिकेशी अतिकेशा माला ) - एतद्रपाणि तत्साधनिका च 'नदी' (२२५) वत् । पक्षे ङयभावे आपि 'दया' (१६५) वच्च । एवम्-बहुकेशी-पृथुमुखीप्रभृतयः ॥ __ शब्दसाधनिका त्वियम्-अत्र "असहनविद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः" [२, ४, ३८] इति कीर्वा भवति । अस्याऽयमर्थः-सहादिवर्जपूर्वपदं यत् स्वाङ्गं तदन्तात् क्रोडादिवर्जाददन्तानाम्नः स्त्रियां कीर्वा भवतीति ॥ ___ अत्राऽसहनविद्यमानवर्जनात्-सहकेशा, अकेशा, विद्यमानकेशा इत्यत्राऽऽबेव भवति ॥ स्वाङ्गत्वाभावाद-बहयवा॥ क्रोडादिवर्जनात्-कल्याणी कोडा अस्याः कल्याणक्रोडा, कोडशब्दः “क्रोडोङ्के तिन्दुकं फले” इति लिङ्गानुशासनवचनात् स्त्रीलीबलिङ्गः । तथा कल्याणखुरा पीनगुदा एकशफा दीर्घबाला भव्यभाला सुगला सुभगा; कल्याणी उखा स्फिक्ः यस्याः सा ॐ चन्द्रभागयोः पर्वतयोरदूरभवा नद्यपि चन्द्रभागी । + चन्द्रभागाभ्यां गिरिभ्यां प्रभवतीत्यणि चान्द्रभागी। .....
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy