________________
[श्रीस्याद्यन्तरत्नाकरे-ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ] २०९
पञ्चानामजानां समाहार:=पश्चाजी। दशानां राज्ञां समाहारः दशराजी, दशराजम् । द्वयोर्वडवयोः समाहारः-द्विवडवी, द्विवडम् ॥ अत्र पञ्चपूली. पञ्चाजीशब्दौ स्त्रीलिङ्गे एव, दशराजी-द्विवडवी-शब्दौ तु स्त्रियां नपुंसके च वर्तते, यत: “पात्रादिवर्जितादन्तो-त्तरपदः समाहारे। द्विगुरन्नाबन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥ १॥” इति लिङ्गानुशासनवचनात् 'पात्रादिवर्जितमकारान्तमुत्तरपदं यस्य स द्विगुः समाहारे स्त्रीलिङ्गो भवति । अन्तमावन्तं च यदुत्तरपदं तदन्तो द्विगुर्विकल्पेन स्त्रीलिङ्गो भवति, विकल्प पक्षे नपुंसकलिङ्गः ॥ नपुंसके 'दर्शन' (१५६) वद्रूपसाधनिका ज्ञेया ॥ ..
(२४१) ईकारान्तः स्त्रीलिङ्गः 'द्विकुडवी' शब्दः॥
( द्वाभ्यां कुडवाभ्यां क्रीता-द्विकुडवी ) एतद्रपाणि तत्साधनिका च ' नदी ' (२२५) बत् । एवं त्रिकुडवीयाढकी-त्र्याढकीप्रमुखाः ॥
शब्दसाधनिका त्वियम्-'द्वाभ्यां कुडवाभ्यां क्रीता' इत्यर्थे (द्विकुडव. शब्दात् ) “मूल्यैः क्रीते'' [३, ४, १५०] इति इकगि “ भनाम्न्यद्विः प्लप्" [६, ४, १४१] इति तल्लुपि "परिमाणाराद्धितलुक्यबिम्ताचितकम्बल्यात्" [२, ४, २३] इति ङ्याम् “अस्य ङ्यां लुम्' २, ४, ८६] इति अकारलुकि 'द्विकुडवी' ॥ एवं त्रिकुडवी, याढको, ज्याढकी ॥ द्वाभ्यां कुडवाभ्यां क्रीत: द्विकुडवः । 'जिन' (७४) वत् ।
,, क्रोतम्-द्विकुडवम् । 'दर्शन' (५६) वत् । त्रिभिः कुटुवैः क्रीतः त्रिकुडवः ।। द्वाभ्यामाढकाभ्यां ,,-ध्याढकः 'जिन' (७४) बद्रपाणि तत्साधनिका च ॥ त्रिभिराढकैः च्याढकः )
म परितः सर्वतो मानं परिमाणम् । तच्च रूढिवशात् प्रस्थादि । यदाहुः___ " ऊर्ध्वमानं किलोन्मानं, परिमाणं तु सर्वतः ।
आयामस्तु प्रमाणं स्यात्, सङ्ख्या बाह्या तु सर्वतः” ॥१॥ आरोहपरिणाहाभ्यां मीयते परिच्छिद्यतेऽनेनेति परिमाणम् ॥