SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ [ श्रीस्याद्यन्तरत्नाकरे - ईकारान्तं ङीप्रत्ययान्तं प्रकरणम् ] २०१ 'आक्षिक : ' पुमान् 'मोक्ष' (७६) वत् । स्त्रियाम् - " अणञेये कण्" [२, ४, २०] इति इकणलक्षणो ङीस्तदनु "अस्य ङथां लुक् " [२, ४, ८५] इति अस्य लुकि 'आशिकी' इति । कीबे तु, अक्षे-जिंतं जयति दीव्यति वा=आक्षिकम्, ' चारित्र' (१५७) शब्दवत् । एवं प्रस्थेन क्रीता=प्रास्थिकी । अत्र “मूल्यैः क्रीते” [६, ४, इति सूत्रेण इकण इति विशेषः ॥ ( २३५ ) ईकारान्तस्तद्धितान्तः स्त्रीलिङ्गः स्त्रैणी' शब्दः || पतद्रूपाणि तत्साधनिका च 'नदी' (२६५) वत् ॥ शब्दसाधनिका त्वियम् - स्त्रिया अपत्यं = स्त्री स्त्रैणी, पुमान् स्त्रैणः । स्त्रीशब्दात् (" प्राग्वतः स्त्रीपुंसाम्रञ्स्त्रञ् " [६, १, २५ ] इति नञ्प्रत्ययः, अस्य जित्वाद् “वृद्धिः खरे० " [ ७, ४, १] इत्याद्यस्वरवृद्धिः, नस्य च " रघुवर्णा ०" [२, ३, ६३] इति णत्वे स्त्रैणशब्दः । अस्य पुंसि 'जिन' (७४) वद्रूपाणि । स्त्रीत्वविवक्षायां “अणजे ० " [२, ४, २०] इति नञ्लक्षणो ङीप्रत्ययः, तस्मिन् परे "भ्रस्य यां लुक्” [२, ४, ८६] इत्यकारलुकि स्त्रैणीशब्दः ॥ (६३६) ईकारान्तस्तद्धितान्तः खीलिङ्गः 'पौंस्नी' शब्दः ॥ एतद्रूपाणि तत्साधनिका च 'नदी' (२२५) वत् ॥ शब्दसाधनिका त्वियम् — पुंसोऽपत्यं = स्त्री पौंस्नी, पुमान् पौनः ॥ पुंस्शब्दात् " प्राग्वतः स्त्रीपुंसा०” [६, १, २५ ] इति स्त्रञ्प्रत्ययः, अस्य जिस्वाद् " वृद्धिः स्वरे० " [ ७, ४, १] इत्युकारस्यौकारे च 'पौंस्+स्त्र' इति जाते, x अनुस्वाररूपव्यञ्जनात् परस्य सकारस्य " घुटो धुटि स्वे वा [,,, ४८] इति वैकल्पिके लुकि एकमकारघटितं, लुगभावपक्षे च सकारद्वयघटितं यथाक्रमं 'पौत्र, पौंस्ख' इति शब्दस्वरूपम्, तद्वैकमकारघटितं प्रस्तुते समाश्रितमिति ॥ x कादिर्व्यञ्जनम् [१, १, १०] इत्यत्र कस्य आदिः' कादिरिति व्युत्पश्या, अनुस्वारविसर्गयोरपि व्यञ्जनसंज्ञा विहिताऽस्तीति ॥ 99 " 6. १५० ] "
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy