SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ।। श्रीमद्विजयकमलसूरीश्वरचरणारविन्देभ्यो नमः ।। प्रस्तावना विदितमेतच्छेमुषीशालिनां विद्वत्सज्जनानां यदुत निखिलसुरासुरसर्वसहापतिव्रजततिसङ्क्रमितागाराङ्गणसिद्धार्थेलापत्यतिविस्तृतान्वयनभोनभोमणिभिः शासनाधिपापश्चिमजिनपतिभगवद्भिर्वर्द्धमानविभुभिः प्रतिपत्त्यादिविशिष्टगुणगणगरिम्णां त्रिभुवनान्तर्वर्त्यखिलासुमत्समुद्धरणबद्धकक्षाणामाग्निवैश्यायनगोत्रालङ्कृतानां श्रीसुधर्मस्वामिगणभृतामुत्पादव्ययध्रुवात्मकरूपा त्रिपद्यर्थतस्समर्पिता, तदनुसृत्या च तैर्भगवद्भिः सूत्रतोऽगुम्फि द्वादशाङ्गी । तदन्तःपाति-विवाहप्रज्ञप्त्यन्याभिधानभगवत्याख्यपञ्चमाङ्गनवमशतकद्वात्रिंशत्तमोद्देशके पार्थयक्षोपसेवितनिर्निमेषेशार्चितपादपद्मश्रीपार्श्वनाथप्रभुसन्तानीयगाङ्गेयपरमर्षिभिरयं सर्वज्ञो न वेति प्रत्ययनार्थं श्रीमत्त्रैशलेयतीर्थकृतां नरकादिगतावेकद्व्यादिजीवप्रवेशानाश्रित्य नानाविधपृष्टभङ्गा वीरवर्त्तन्ते । तत उद्धृत्य श्रीमन्मेघपण्डितान्तेवासिपण्डितश्रीविजयगणिभिः सङ्क्षिप्तभङ्गयुतं नष्टोद्दिष्टस्वरूपमयञ्चैतत्प्रकरणं व्यरचि । प्रकरणेऽस्मिन्प्रकरणप्रणेतृभिश्चतुर्विंशतितमायां गाथायामेतत्प्रकरणाध्ययनश्रवणफलं घोरामयाधुच्छेदापवर्गप्रप्तिर्जायत इत्युदितमतः सर्वैभव्यसत्त्वैरवश्यमध्येतव्यं श्रोतव्यञ्च । प्रकरणस्यास्य प्रणेतारः क्व गच्छे ? कस्मिन् समये चासन् ? कदा चैतत्प्रकरणं विहितं ? इत्यादि निर्णेतुमद्यावधि नैवाशक्नुवम् । एतत्प्रकरणस्य प्रतिकृतिप्रुफादिकञ्च संशोधितं मदीयचिद्गुरुश्रीमत्प्रेमविजयपूज्यैः, अतस्तेषां महाशयानां हार्दिकधन्यवादपुरस्सरमुपकारं मन्ये । अस्य संशोधनकर्मणि त्रीणि पुस्तकानि समुपलब्धानि, तेष्वाद्ये द्वे पुस्तके उपाध्यायपदालङ्कृतानामस्मद्गुरुवर्यगुरूणां श्रीमद्वीरविजयपूज्यपादानां सत्के । भङ्गकयन्त्रयुतं तृतीयं पुनः पन्न्यासश्रीमन्मेघविजय
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy