________________
શ્રાવક પ્રજ્ઞપ્તિ • ૮૬ उक्तं सोपक्रमद्वारं, तदभिधानाच्च संसारिणो जीवाः (उक्ताः) । सांप्रतं मुक्तानभिधित्सुराहमुत्ता अणेगभेया, तित्थतित्थयरतदियरा चेव ।। सयपत्तेयविबुद्धा बुहबोहिय सन्नगिहिलिंगे ॥ ७६ ॥ [मुक्ता अनेकभेदाः तीर्थतीर्थकरतदितरे चैव । खयंप्रत्येकबुद्धा बुधबोधिताः स्वान्यगृहिलिङ्गाः ॥ ७६ ॥] मुक्ताश्च सिद्धाः ते चानेकभेदा अनेकप्रकाराः । तीर्थतीर्थकरतदितरे चेति, अनेन सूचनात्सूत्रमिति कृत्वा तीर्थसिद्धा अतीर्थसिद्धास्तीर्थकरसिद्धा अतीर्थकरसिद्धाश्च गृह्यन्ते । तत्र तीर्थे सिद्धास्तीर्थसिद्धाः । तीर्थं पुनश्चातुर्वर्णः श्रमणसंघः प्रथमगणधरो वा । तथा चोक्तं- "तित्थं भंते ! तित्थं तित्थगरे तित्थं? गोयमा ! अरहं ताव नियमा तित्थंकरे तित्थं पुण चाउव्वन्नो समणसंघो पढमगणधरो वा" इत्यादि । ततश्च तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः । अतीर्थे सिद्धा अतीर्थसिद्धास्तीर्थान्तरसिद्धा इत्यर्थः, श्रूयते च- "जिणंतरे साहुवोच्छउत्ति" तत्रापि जातिस्मरणादिना अवाप्तापवर्गमार्गाः सिध्यन्ति एवं, मरुदेवीप्रभृतयो वा अतीर्थसिद्धास्तदा तीर्थस्यानुत्पन्नत्वात् । तीर्थकर सिद्धास्तीर्थकरा एव ॥ अतीर्थकरसिद्धा अन्ये सामान्यकेवलिनः । स्वयंप्रत्येकबुद्धा इत्यनेन स्वयंबुद्धसिद्धाः प्रत्येकबुद्धसिद्धाश्च गृह्यन्ते । तत्र स्वयंबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः । प्रत्येकबुद्धसिद्धाः प्रत्येकबुद्धास्सन्तो ये सिद्धा इति । अथ स्वयंबुद्धप्रत्येकबुद्धयोः कः प्रतिविशेष इति ? उच्यते- बोध्युपधिश्रुतलिङ्गकृतो विशेषः । तथाहि- स्वयंबुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, प्रत्येकबुद्धास्तु न तद्विरहेण, श्रूयते च बाह्यप्रत्ययवृषभादिसव्यपेक्षा करकण्ड्वादीनां प्रत्येकबुद्धानां बोधिरिति । उपधिस्तु स्वयंबुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः । स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां नियमतो भवत्येव । लिङ्गप्रतिपत्तिः स्वयंबुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण ॥ बुद्धबोधिता इति बुद्धबोधितसिद्धाः, बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते । स्वान्यगृहिलिङ्गा इति स्वलिङ्गसिद्धा अन्यलिङ्गसिद्धा गृहिलिङ्गसिद्धाः । तत्र स्वलिङ्गसिद्धा द्रव्यलिङ्गं प्रति रजोहरणगोच्छकधारिणः । अन्यलिङ्गसिद्धाः परिव्राज-कादिलिङ्गसिद्धाः । गृहिलिङ्गिसिद्धा मरुदेवीप्रभृतय इति ॥ ७६ ॥