________________
श्राव प्रशप्ति. ७०
तथादट्टण पाणिनिवहं, भीमे भवसागरंमि दुक्खत्तं । अविसेसओ णुकंपं, दुहावि सामत्थओ कुणइ ॥ ५८ ॥ [दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तं । अविशेषतः अनुकम्पां द्विधापि सामर्थ्यतः करोति ॥ ५८ ॥] दृष्ट्वा प्राणिनिवहं जीवसंघातं क्व भीमे भयानके भवसागरे संसारसमुद्रे दुःखार्तं शारीरमानसैर्दुःखैरभिभूतमित्यर्थः अविशेषतः सामान्येनात्मीयेतरविचाराभावेनेत्यर्थः अनुकम्पां दयां द्विधापि द्रव्यतो भावतश्च, द्रव्यतः प्राशुकपिण्डादिदानेन भावतो मार्गयोजनया सामर्थ्यतः स्वशक्त्यनुरूपं करोतीति ॥ ५८ ॥
ગાથાર્થ– ભયંકર ભવસાગરમાં જીવસમૂહને દુઃખાર્ત જોઈને ભેદભાવ વિના સ્વશક્તિ પ્રમાણે બંને પ્રકારે અનુકંપા કરે છે. ટીકાર્થ– દુઃખાર્ત– શારીરિક-માનસિક દુઃખોથી પરાભવ પામેલા. ભેદભાવ વિના– આ મારો છે, આ પારકો છે એવા વિચાર વિના. બંને પ્રકારે– દ્રવ્યથી અને ભાવથી એમ બંને પ્રકારે દયા કરે છે. દ્રવ્યથી અચિત્ત આહારાદિ આપવા વડે અને ભાવથી માર્ગમાં (भोक्षमा [मi) 34. 43 ध्या ७३ छ. (५८)
मन्नइ तमेव सच्चं, निस्संकं जं जिणेहि पन्नत्तं । सुहपरिणामो सव्वं, कंक्खाइविसुत्तियारहिओ ॥ ५९ ॥ [मन्यते तदेव सत्यं निःशङ्कं यज्जिनैः प्रज्ञप्तं ।। शुभपरिणामः सर्वं काङ्क्षादिविश्रोतसिकारहितः ॥ ५९ ॥]
मन्यते प्रतिपद्यते तदेव सत्यं निःशङ्कं शङ्कारहितं यज्जिनैः प्रज्ञप्तं यत्तीर्थकरैः प्रतिपादितं शुभपरिणामः सन् साकल्येनानन्तरोदितसमस्तगुणान्वितः सर्वं समस्तं मन्यते न तु किंचिन्मन्यते किंचिन्नेति भगवत्यविश्वासायोगात् । पुनरपि स एव विशिष्यते- किंविशिष्टः सन् । काङ्क्षादिविश्रोतसिकारहितः काङ्क्षा अन्योन्यदर्शनग्राह इत्युच्यते, आदिशब्दाद्विचिकित्सापरिग्रहः, विश्रोतसिका तु संयमशस्यमङ्गीकृत्याध्यवसायसलिलस्य विश्रोतोगमनमिति ॥ ५९ ॥