________________
श्राव प्रशस्ति . ४३ भिन्नंमि तंमि लाभो, जायइ परमपयहेउणो नियमा । सम्मत्तस्स पुणो तं, बंधेण न वोलइ कयाइ ॥ ३३ ॥ [भिन्ने तस्मिन् लाभो जायते परमपदहेतोनियमात् ।। सम्यक्त्वस्य पुनस्तं बन्धेन न व्यवलीयते कदाचित् ॥ ३३ ॥]
भिन्नेऽपूर्वकरणेन विदारिते तस्मिन् ग्रन्थावात्मनि लाभः प्राप्तिर्जायते संपद्यते परमपदहेतोर्मोक्षकारणस्य नियमान्नियमेनावश्यंभावतयेत्यर्थः कस्य सम्यक्त्वस्य वक्ष्यमाणस्वरूपस्य । पुनस्तं ग्रन्थिमवाप्तसम्यग्दर्शनः सन् बन्धेन कर्मबन्धेन न व्यवलीयते नातिकामयति कदाचित्कस्मिंश्चित्काले न ह्यसावुत्कृष्टस्थितीनि कर्माणि बध्नाति तथाविधपरिणामाभावादिति ॥ ३३ ॥
ગાથાર્થ ટીકાર્થ– અપૂર્વકરણ વડે તે ગ્રંથિ ભેદાયે છતે આત્મામાં મોક્ષનું કારણ એવા સમ્યગ્દર્શનની અવશ્ય પ્રાપ્તિ થાય છે. સમ્યગ્દર્શનને પ્રાપ્ત કરનાર જીવ કર્મબંધથી ક્યારે પણ ગ્રંથિને ઓળંગતો નથી, અર્થાત્ તે ક્યારેય ઉત્કૃષ્ટ સ્થિતિવાળાં કર્મોને બાંધતો નથી. કારણ કે હવે તેને तेवा प्रा२नो परिणाम थतो नथ.. (33)
अत्राहतं जाविह संपत्ती, न जुज्जए तस्स निग्गुणत्तणओ । बहुतरबंधाओ खलु, सुत्तविरोहा जओ भणियं ॥ ३४ ॥ [तं यावदिह संप्राप्तिर्न युज्यते तस्य निर्गुणत्वात् । बहुतरबन्धात्खलु सूत्रविरोधात् यतो भणितम् ॥ ३४ ॥]
तं ग्रन्थि यावदिह विचारे संप्राप्तिर्न युज्यते नै घटते । कुतस्तस्य निर्गुणत्वात्तस्य जीवस्य सम्यग्दर्शनादिगुणरहितत्वात् । निर्गुणस्य च बहुतरबन्धात् खलुशब्दोऽवधारणे बहुतरबन्धादेव । इत्थं चैतदङ्गीकर्तव्यं । सूत्रविरोधादन्यथा सूत्रविरोध इत्यर्थः । कथमित्याह- यतो भणितं यस्मादुक्तमिति ॥ ३४ ॥
અહીં શિષ્ય કહે છેગાથાર્થ– જીવનું ગ્રંથિ સુધી આગમન ઘટી શકતું નથી. કારણ કે જીવ નિર્ગુણ છે. નિર્ગુણ જીવને ઘણો બંધ થતો હોવાથી જ જીવનું ગ્રંથિ સુધી આગમન ઘટી શકતું નથી. જો એમ ન સ્વીકારવામાં આવે તો