________________
શ્રાવક પ્રજ્ઞપ્તિ • ૨૪
तत्र कषायभेदानाहअण अप्पच्चक्खाणा, पच्चक्खाणावरणा य संजलणा । कोहमणमायलोहा, पत्तेयं चउवियप्पत्ति ॥ १७ ॥ [अनन्तानुबन्धिनोऽप्रत्याख्यानाः प्रत्याख्यानावरणाः च संज्वलनाः । क्रोधमानमायालोभाः प्रत्येकं चतुर्विकल्पा इति ॥ १७ ॥]
अण इति सूचनात्सूत्रमिति कृत्वा अनन्तानुबन्धिनो गृह्यन्ते, इह पारम्पर्येणानन्तं भवमनुबद्धं शीलं येषामिति अनन्तानुबन्धिनः उदयस्थाः सम्यक्त्वविघातिन इति कृत्वा ॥ अविद्यमानप्रत्याख्याना अप्रत्याख्याना देशप्रत्याख्यानं सर्वप्रत्याख्यानं च नैषामुदये लभ्यते इत्यर्थः ॥ प्रत्याख्यानमावृण्वन्ति मर्यादया ईषद्वेति प्रत्याख्यानावरणाः, आङ् मर्यादायामीषदर्थे वा, मर्यादायां सर्वविरतिमावृण्वन्ति न देशविरतिं, ईषदर्थेऽपि ईषदृण्वन्ति सर्वविरतिमेव न देशविरति, देशविरतिश्च भूयसी स्तोकादपि विरतस्य देशविरतिभावात् ।। चः समुच्चये ॥ ईषत्परीषहादिसन्निपातज्वलनात्संज्वलनाः सम् शब्द ईषदर्थे इति ॥ एवं क्रोधमानमायालोभाः प्रतीतस्वरूपाः प्रत्येकं चतुर्विकल्पा इति । क्रोधोऽनन्तानुबन्ध्यादिभेदाच्चतुर्विकल्पः ॥ एवं मानादयोऽपीति ॥ स्वरूपं चैतेषामित्थमाहु:
जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो । तिणिसलयाकट्टट्ठियसेलत्थंभोवमो माणो ॥ १ ॥ मायावलेहिगोमुत्तिर्मिढसिंगघणवंसमूलसमा । . लोहो हलिद्दखंजणकद्दमकिमिरागसारित्थो ॥ २ ॥ (कर्मग्रंथ १-१९-२०) पक्खचउम्मासवच्छरजावजीवाणुगामिणो कमसो । देवनरतिरियनारयगतिसाहणहेयवो भणिया ॥ ३ ॥ इति ॥ १७ ॥ તેમાં કષાયના ભેદોને કહે છે–
ગાથાર્થ કષાયના અનંતાનુબંધી, અપ્રત્યાખ્યાન, પ્રત્યાખ્યાનાવરણ અને સંજવલન એમ ચાર પ્રકાર છે. તે દરેક પ્રકારના ક્રોધ, માન, માયા અને લોભ એમ ચાર પ્રકાર છે.
ટીકાર્થ અનંતાનુબંધી– પરંપરાએ અનંતભવનો અનુબંધ કરવાનો જેમનો સ્વભાવ છે તે અનંતાનુબંધી. કારણ કે ઉદયમાં આવેલા અનંતાનુબંધી કષાયો સમ્યક્ત્વનો ઘાત કરે છે.