________________
શ્રાવક પ્રજ્ઞપ્તિ • ૩૨૭ साधूनां श्रावकाणां चोक्तशब्दार्थानां (२), सामाचारी व्यवस्था कदा विहरणकाले विहरणसमये किंविशिष्टेत्याह- यत्र स्थाने सन्ति चैत्यानि वन्दयन्ति तत्र सधं चतुर्विधमपि प्रणिधानं कृत्वा स्वयमेव वन्दत इति ॥ ३६६॥ पढमं तओ य पच्छा, वंदंति सयं सिया ण वेल त्ति । पढमं चिय पणिहाणं, करंति संघमि उवउत्ता ॥ ३६७ ॥ [प्रथमं ततश्च पश्चात् वन्दन्ते स्वयं स्यान्न वेला इति । प्रथममेव प्रणिधानं कुर्वन्ति सधे उपयुक्ताः ॥ ३६७ ॥]
प्रथममिति पूर्वमेव सङ्घ वन्दयन्ति ततः पच्छात्सङ्घवन्दनोत्तरकालं वन्दन्ते स्वयमात्मना आत्मनिमित्तमिति स्यान्न वेलेति स्तेनादिभयसार्थगमनादौ तत्रापि प्रथममेव वन्दने प्रणिधानं कुर्वन्ति सङ्घविषयमुपयुक्ताः सचं प्रत्येतद्वन्दनं सङ्घोऽयं वन्दत इति ॥ ३६७ ॥ पच्छा कयपणिहाणा, विहरंता साहुमाइ दट्टण । जंपंति अमुगठाणे, देवे वंदाविया तुब्भे ॥ ३६८ ॥ [पश्चात् कृतप्रणिधाना विहरन्तः साध्वादीन्दृष्ट्वा ।। जल्पन्ति अमुकस्थाने देवान् वन्दिता यूयम् ॥ ३६८ ॥] पश्चात् तदुत्तरकालं कृतप्रणिधानाः सन्तस्तदर्थस्य संपादितत्वाद् विहरन्तः सन्तः साध्वादीन् दृष्ट्वा साधुं साध्वीं श्रावकं श्राविकां वा जल्पन्ति व्यक्तं च भणन्ति किं अमुकस्थाने मथुरादौ देवान्वन्दिता यूयमिति ॥ ३६८ ॥ ते वि य कयंजलिउडा, सद्धासंवेगपुलइयसरीरा । अवणामिउत्तमंगा, तं बहु मन्नंति सुहझाणा ॥ ३६९ ॥ [तेऽपि च कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीराः । अवनामितोत्तमाङ्गाः तद् बहु मन्यन्ते शुभध्यानाः ॥ ३६९ ॥] तेऽपि च साध्वादयः कृताञ्जलिपुटा रचितकरपुटाञ्जलयः श्रद्धासंवेगपुलकितशरीराः श्रद्धाप्रधानसंवेगतो रोमाञ्चितवपुषो ऽवनामितोत्तमाङ्गाः सन्तस्तद्वन्दनं बहु मन्यन्ते शुभध्यानाः प्रशस्ताध्यवसाया इति ॥ ३६९ ॥ उभयोः फलमाहतेसिं पणिहाणाओ, इयरेसि पि य सुभाउ झाणाओ । पुन्नं जिणेहिं भणियं, नो संकमउ त्ति ते मेरा ॥ ३७० ॥