________________
શ્રાવક પ્રજ્ઞપ્તિ - ૨૮૭
કરે, અથવા તેનાથી પણ ઓછું કરીને ઘરની ડેલી સુધી પ્રમાણ કરે. અહીં દિશાપરિમાણવ્રતમાં લીધેલું ક્ષેત્રપ્રમાણ હાથીના દેહ તુલ્ય છે. શ્રાવકની ગમન-આગમન વગેરે પ્રવૃત્તિવિષના ફેલાવા સમાન છે. દેશાવગાશિક ઔષધ તુલ્ય છે. તેથી શ્રાવક તેનાથી ઘણા કે અધિક ઘણા ક્ષેત્રનો સંક્ષેપ કરે. (૩૧૯)
अतस्तानाह—
वज्जिज्जा आणयणप्पओगपेसप्पओगयं चेव ।
सद्दाणुरूववायं, तह बहिया पुग्गलक्खेवं ॥ ३२० ॥ [वर्जयेत् आनयनप्रयोगं प्रेष्यप्रयोगं चैव ।
शब्दानुपातं रूपानुपातं तथा बहिः पुद्गलक्षेपम् ॥ ३२० ॥] प्रतिपन्नदेशावकाशिकः सन् वर्जयेत् किं आनयनप्रयोगं प्रेष्यप्रयोगं चैव शब्दानुपातं रूपानुपातं च तथा बहिर्वा पुद्गलक्षेपं वर्जयेदिति पदघटना । भावार्थस्तु इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्योऽन्यः सचित्तादिद्रव्यानयने प्रयुज्यते, संदेशकप्रदानादिना " त्वयेदमानेयम्" इति अयमानयनप्रयोगः ॥ तथा प्रेष्यप्रयोगः बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात् “त्वयावश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमेव" एवम्भूतः ।२। तथा शब्दानुपातः स्वगृहवृत्तिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयंगमनायोगाद् वृत्तिप्राकारप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं क्षुत्कासितादिकशब्दकरणेन समवसितकान्बोधयतः शब्दानुपातनमुच्चारणं तादृग्येन परकीयश्रवणविवरमनुपतत्यसाविति ।३। तथा रूपानुपातो गृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थं स्वशरीररूपप्रदर्शनं रूपानुपात: ।४। तथा बहि: पुद्गलक्षेपो-ऽभिगृहीतदेशाद् बहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेप इति भावना । ५ । देशावकाशिकमेतदर्थमभिगृह्यते मा भूद् बहिर्गमनागमनादिव्यापारजनित: प्राण्युपमर्द इति । स च स्वयं कृतोऽन्येन वा कारितः इति न कश्चित्फले विशेषः । प्रत्युत गुणः स्वयं गमन ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वात्तदशुद्धिरिति ॥ ३२० ॥
આ પણ અતિચાર રહિત પાળવું જોઇએ. આથી અતિચારોને કહે છે– ગાથાર્થ– આનયનપ્રયોગ, પ્રેષ્યપ્રયોગ, શબ્દાનુપાત, રૂપાનુપાત અને બહિ:પુદ્ગલક્ષેપનો ત્યાગ કરે.