________________
શ્રાવક પ્રજ્ઞપ્તિ • ૨૬૨ [कंदर्प कौत्कुच्यं मौखर्यं संयुक्ताधिकरणं च । उपभोगपरिभोगातिरेकतां चैव वर्जयेत् ॥ २९१ ॥] इति पदघटना । पदार्थस्तु- कन्दर्पः कामस्तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, रागोद्रेकात्प्रहासमिश्रो मोहोद्दीपको नर्मेति भावः । इह च सामाचारी- सावगस्स अट्टहासो न वट्टइ । जइ नाम हसियव्वं तउ इसिं चेव हसियव्वं ति ॥१॥ कौत्कुच्यं कुत्सितसंकोचनादिक्रियायुक्तः कुत्कुचः । तस्य भाव: कौत्कुच्यम्, अनेकप्रकारमुखनयनौष्ठकरचरणधूविकारपूर्विका परिहासादिजनिका भाण्डादीनामिव विडम्बनक्रियेत्यर्थः । एत्थ सामाचारी"तारिसगाणि भासिउं न कप्पंति जारिसेहिं लोगस्स हासो उप्पज्जइ । एवं गतीए ठाणेण वा ठाइउं ति" ॥२॥ मौखर्यं धाष्टात्प्रायोऽसत्यासंबद्धप्रलापित्वमुच्यते । "मुहेण वा अरिमाणेइ जहा कुमारामच्चेणं । सो वारहडो विसज्जिओ रन्नो णिवेदियं । ताए जीवियाए वित्ती दिन्ना । अन्नदा रुद्वेण मारिओ कुमारामच्चो" ॥३॥ संयुक्ताधिकरणं अधिक्रियते नरकादिष्वनेने त्यधिकरणं वास्युदूखलशिलापुत्रकं गोधूमयन्त्रकादिषु संयुक्तमर्थक्रियाकरणयोग्यं । संयुक्तं च तदधिकरणं चेति समासः । एत्थ सामाचारी- "सावगेणं संजुत्ताणि चेव सगडाईणि न धरेयव्वाणि । एवं वासीपरसुमाइ विभासा" ॥४॥ उवभोगपरिभोगाइरेगयत्ति ॥ उपभोगपरिभोगशब्दार्थो निरूपित एव । तदतिरेकस्तदधिकभावः । एत्थ वि सामाचारी- "उवभोगातिरित्तं जइ तेल्लामलए बहुए गेण्हइ तो बहुगा ण्हायगा वच्चंति तस्स लोलियाए अन्ने वि व्हायगा ण्हायंति । पच्छा पूयरगआउकायादिवहो होइ । एवं पुप्फतंबोलादिसु विभासा । एवं न वट्टइ । का विही सावगस्स उवभोगे पहाणे घरे ण्हाइयव्वं नत्थि ताहे तेल्लामलएहिं सीसं घसित्ता सव्वे साडविऊण ताहे तलागाईणं तडे निविट्ठो अंजलीहिं ण्हाइ । एवं जेसु य पुप्फेसु पुप्फकुंथू ताणि परिहरइ" ॥५॥
उक्तं सातिचारं तृतीयगुणवतं । गुणव्रतानन्तरं शिक्षापदव्रतान्याह । तानि चत्वारि भवन्ति । तद्यथा- सामायिकं देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति ॥ २९१ ॥
આ વ્રત પણ અતિચારરહિત જ પાળવું જોઇએ. આથી અતિચારોને हे छ