________________
શ્રાવક પ્રજ્ઞપ્તિ - ૨૫૭ सचित्ताहारं खलु सचेतनं मूलकन्दादिकं तत्प्रतिबद्धं च वृक्षस्थगुन्दपक्वफलादिलक्षणं वर्जयेन्निहरेत्सम्यक् प्रवचनोक्तेन विधिना । तथा अपक्वदुःपक्वतुच्छौषधिभक्षणं च वर्जयेदिति वर्तते । तत्रापक्वाः प्रसिद्धाः दुःपक्वास्त्वर्धस्विन्नाः तुच्छास्त्वसारा मुद्गफलीप्रभृतय इति ॥ २८६ ॥ તેમાં ભોજનને આશ્રયીને અતિચારોને કહેવાની ઇચ્છાથી કહે છે–
ગાથાર્થ– સચિત્ત, સચિત્તપ્રતિબદ્ધ, અપક્વ, દુષ્પક્વ આહારનો અને તુચ્છ ઔષધિભક્ષણ એ પાંચ અતિચારોનો સમ્યફ ત્યાગ કરે.
ટીકાર્થ- સચિત્ત મૂળ-કંદ વગેરે સચિત્ત આહાર છે. વૃક્ષમાં રહેલ ગુંદર અને પાકાં ફળો વગેરે સચિત્ત પ્રતિબદ્ધ આહાર છે. અપક્વ આહાર પ્રસિદ્ધ છે. અર્ધ રંધાયેલ દુષ્પક્વ આહાર છે. તુચ્છ એટલે અસાર. મગની शिंगो पो३ तु७ माहार छ. (२८६)
उक्ता भोजनातिचाराः । साम्प्रतं कर्माश्रित्याहइंगालीवणसाडीभाडीफोडीसु वज्जए कम्मं । वाणिज्जं चेव दंतलक्खरसकेसविसविसयं ॥ २८७ ॥ [अङ्गारवनशकटभाटकस्फोटनेषु वर्जयेत् कर्म । वाणिज्यं चैव दन्तलाक्षारसकेशविषविषयम् ॥ २८७ ॥]
अङ्गारवनशकटभाटकस्फोटनेषु एतद्विषयं वर्जयेत् कर्म न कुर्यात् । तत्राङ्गारकर्माङ्गारकरणविक्रयविषयम् । एवं शेषेष्वप्यक्षरगमनिका कार्या । तथा वाणिज्यं चैव दन्तलाक्षारसकेशविषविषयं दन्तादिगोचरं वर्जयेत्परिहरेदिति ॥ २८७ ॥ एवं खु जंतपीलणकम्मं निल्लंछणं च दवदाणं । सरदहतलायसोसं, असईपोसं च वज्जिज्जा ॥ २८८ ॥ [एवं खलु यन्त्रपीडनकर्मनिर्लाञ्छनं च दवदानम् । सरोह्रदतडागशोषं असतीपोषं च वर्जयेत् ॥ २८८ ॥] एवमेव शास्त्रोक्तेन विधिना यन्त्रपीडनकर्म निर्लञ्छनं च कर्म दवदानं सरोह्रदतडागशोषं असतीपोषं च वर्जयेदिति गाथाद्वयाक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादेव अवसेयः । स चायम्