SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ પરલોકસંબંધી કોઇ ગુણ (=લાભ) નથી. એ કેવળ પોતાના હૃદયનો ઉન્માદ છે. એનાથી સંસારની વૃદ્ધિ થાય છે. (૯૭) जात्यादिमदोन्मत्तः, पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभते ॥ ९८ ॥ तथा-जात्याद्यष्टप्रकारेण मदेनोन्मत्तः-परवशः स तथा । पिशाचवत् सूचकत्वात्सूत्रस्य शुचिपिशाचाभिधानद्विजवद् भवति-जायते दुःखितोदुःखभाक् इह-अत्रैव जन्मनि । कथानकं चैवं-यथा क्वापि स्थाने शुचिपिशाचाभिधो द्विजः, अत्र वसतामशुचिरेवेति मत्वा जनाकीर्णदेशमुत्सृज्य समुद्रवर्तिद्वीपमनुप्रविष्टः । तत्र चैको वणिक् भिन्नपोतः प्रथमतरं गत आस्ते। तत्र चेक्षुवाटाः प्रचुराः सन्ति । तद्रसपानात् केवलाद् गुडशकलानीव गुदमुखेन तेन निसृष्टानि पुरीषरूपाणि । तानि चालोक्य स चोक्षकः शुचिपिशाचश्चखाद । तृप्तश्चास्ते प्रत्यहं । दृष्टश्च कालान्तरेण हिण्डमानो वणिक्, पृष्टश्च किमत्रागमनप्रयोजनम् ? । वणिजाऽभ्यधायि-पोतभङ्गादत्रायातः । पुनः पुष्ट:कथं तव भुक्तियुक्तिः ?, वणिजोक्तं-इक्षुरसास्वादनेन । पुनरुक्तं-भवान् कथमायातः ? । तेनाप्युक्तं-जनाकीर्णे-ऽशुचिरिति कृत्वाऽत्रायातः, अपर उवाच-कथमाहारमन्तरेणात्र स्थीयते ?। ततस्तेनाभाणि-प्रत्यहमिक्षुफलानि भक्षयंस्तिष्टामि । ततश्चाश्चर्यसम्पन्नेन तेनोक्तं-ममापि तानि दर्शयेति । ततो वणिग्निसृष्टानि पुरीषाणि दर्शितवान् । ततो विहस्य वणिजोक्तं-ममेदं पुरीषं भवता प्रत्यहं भक्ष्यते । अहो शोभनः शुचिवादस्तव । ततश्चोद्विग्नमानसस्तस्मादपि स्थानाद्विनिर्गतो द्वीपान्तरं गतः । तत्रापि वल्गुल्यादिचूषितानि फलानि भक्षितवान् । एवं यत्र यत्र याति तत्र तत्र दुःखभाक् जात इति । तथा परभवे च निःसंशयं जात्यादिहीनतां लभते-प्राप्नोतीति ॥ ९८ ॥ ગાથાર્થ– જાતિ આદિ આઠ પ્રકારના મદથી ઉન્મત્ત પરવશ થયેલ જીવ આ જ ભવમાં શુચિપિશાચ નામના બ્રાહ્મણની જેમ દુઃખી થાય છે તથા પરલોકમાં અવશ્ય જાતિ આદિની ન્યૂનતાને પામે છે, અર્થાત્ જાતિ આદિ આઠમાંથી જેનો જેનો મદ કરે છે તે પરલોકમાં હીન ( હલકું) મળે. પ્રશમરતિ ૦ ૭૫
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy