SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ नयम वगेरे. प्रभा=प्रत्यक्ष पोरे... (२२८-२२८) एतत् सम्यग्दर्शनादित्रयं मोक्षसाधकमिति कथयतिसम्यक्त्वज्ञानचारित्रसंपदः साधनानि मोक्षस्य । तास्वेकतराभावेऽपि, मोक्षमार्गोऽप्यसिद्धिकरः ॥ २३० ॥ सम्यग्दर्शनादिसम्पदः-संपत्तयः, किं ? साधनानि-जनकानि वर्तन्ते, कस्य ? मोक्षस्य-मुक्तेः । तासु-सम्पत्सु मध्ये एकतरस्या:-सम्यग्दर्शनादिसम्पदः अन्यतरस्या अभावे-असत्तायां । अपिः पूरणे । मोक्षमार्गोऽपिमुक्तिप्रापकोऽपि असिद्धिकर:-मोक्षप्राप्तेरकर्ता, देवलोकादिप्राप्तिकारी भवत्येव विकलोऽपि इति गम्यम् ॥ २३० ॥ આ સમ્યગ્દર્શનાદિ ત્રણ મોક્ષના સાધક છે એમ કહે છે– ગાથાર્થ- સમ્યક્ત્વ-જ્ઞાન-ચારિત્ર રૂપ સંપત્તિઓ મોક્ષનું સાધન ( મોક્ષને ઉત્પન્ન કરનાર) છે. આ ત્રણમાંથી એકનો પણ અભાવ હોય તો મોક્ષમાર્ગ સિદ્ધિને કરતો નથી. ટીકાર્થ–મોક્ષમાર્ગ સિદ્ધિને કરતો નથી=મુક્તિની પ્રાપ્તિ કરનાર પણ મોક્ષમાર્ગ મુક્તિપ્રાપ્તિ કરનારો થતો નથી. વિકલ પણ મોક્ષમાર્ગ દેવલોક આદિની પ્રાપ્તિ કરનારો તો થાય જ છે એમ જાણવું. (૨૩૦) पूर्वद्वयसम्पद्यपि, तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः ॥ २३१ ॥ पूर्वद्वयसम्पद्यपि-दर्शनज्ञानसम्पत्तावपि तेषां-तद्वतां भजनीयं-विकल्पनीयं भवति, कदाचिदस्ति कदाचिन्नास्ति । किं तत् ? उत्तरं-चारित्रं, अविरतदेशविरतानामपि सद्भावात्, अन्यथा तेषामभाव एव स्यात् । उत्तरलाभे पुनःचारित्रलाभे तु पूर्वद्वयलाभः-सद्दर्शनज्ञानसद्भावः सिद्धो भवति-निश्चयेन जायत एव, चारित्रिणां सम्यक्त्वज्ञाने नियते एव भवत इति ॥ २३१ ॥ १. प्रभाए।नयैरधिगमः । तत्त्वाधिगम स.१.सू.६. પ્રશમરતિ - ૧૯૮
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy