________________
स्यादिशब्दसमुच्चयः । [४५] हे सीमन् । पक्षे "ताम्यां वाऽऽप डित् ॥२।४।१५॥ इति सीमा सीमे सीमाः । इत्यादि श्रद्धावत् । एंव पामन् पक्ष पामा । एवमन्ये स्त्रीलिङ्गा मन्नन्ताः ॥१३॥ क्लोबे सामन्-मुखास ल्याः पर्ष-जन्मादयः पृथक् । अड्नो भेदो वायलिगा बहुराजन्-मुखा म: ॥१४॥
'अनतो लुप्" ॥१॥धा५९॥ "नाम्नो नोऽनह्नः ॥२॥१९॥ साम 'ईङौ वा" ।।२।१।१०९॥ साम्नी, सामनी सामानि २। साम्ना सामभ्याम् सामभिः । साम्ने । साग्नि, साभनि सामसु । आ० "क्लाबे बा" ॥२।१।१०९॥ हे साम, सामन् हे साम्नी, सामनी सामानि ॥ एवं दामन्-धामन्-व्योमन्नामन-मुख्या अवमन्तसंयोगान्नोन्ताः। सिलोपे नलोपे पर्व पर्वणी "न वमन्तसंयोगात्" ॥२।१।१११॥ अलुक् पर्वाणि २ । पर्वणा पर्वभ्याम् पर्वभिः । पर्वणि पर्वसु । आ० हे पर्व, पर्वन् । शोभनानि पर्वाणि यस्या यष्टेरिति स्त्रीत्वे डापप्रत्यय सुपर्वा श्रद्धावत् ॥ एवं वर्मन्-नर्मन्-जन्मन-सन्मन्मुख्या वमन्तसंयोगान्नान्ताः ॥ "अनतो लुप्" ॥१४५९॥ "रो लुप्यरि" ॥२।१।७५॥ अहः अह्नी, अहनी अहानि २। "अनोऽस्य" ॥२॥१.१०८॥ अह्नो "अनः" ।।२।१।७४॥ रुः अहो. भ्याम् अहोभिः । अनः २ । अनि, अहनि अहसु । आ० हे अहः॥
बहुराजन्- बहुतक्षन्-उद्दामन -सुवृत्रहन्-भूरिधामन् इत्याद्या अवमन्तसंयोगान्नान्ताः । बवो राजानो यस्मिन् देशे स बहुराजा बहुराजानौ इत्यादि पूर्वराजन्वतू । स्त्रियाम्बहवो राजानो यस्यां पृथ्व्याम् अत्र "अनोवा" ॥२४॥११॥