________________
[४०] स्यादिशब्दसमुच्चयः । क्रीणती नदीवत् ! क्लाबे क्रीणत् क्रीणती क्रीन्ति २॥ 'चुरण' चोरयतीति चोरयन् चोरयन्तौ इत्यादि । स्प्रियाम्-यां "श्यशवः" ॥२॥१।११६॥ चोरयन्ती नदावत् । क्लीबे-चारयत् "श्यशव" ॥२॥११११६॥ चोरयन्ती चोरयन्ति २ । आ० एवम् ॥ करिष्यत् कारयिष्यत् ॥ सूत्रे खजित् अत्र शत्रु जयतीति शत्रुजित् "हस्वस्य तः पित्कृति" ॥४४॥११३॥ शत्रुजितौ इत्यादि स्वरे व्यञ्जने च सन्धिः। स्त्रियामण्येवम् । क्लीबे शत्रुजित् शत्रुजिती शत्रुजिन्ति २ । आ० एवम् । एवमन्ये ॥ करोति स्म कृतवत्-"ऋदुदितः" ॥१४७०॥ "अभ्वादेः०" ॥१।४।९०॥ कृतवान् कृतवन्तौ कृतवन्तः ५ । कृतवतः । कृतवता कृतयदभ्याम् । कृतवत्सु, कृतवतु । आ० हे कृतवन् । स्त्रियाम्-कृतवती नदीवत् । क्लोबे-कृतवत् कृतवती कृतवन्ति २ ॥ एवं चितवत् धृत. वत्-मुख्याः ॥ यत् परिमाणमस्य "यत्तदेतदो डावादिः" ॥७१।१४९॥ यावत्-"ऋदुदितः" ॥१४७०॥ "अभ्वादेःo" ॥१।४।९०॥ यावान् यावन्तौ ५ । यावतः । यावता यावद्:भ्याम् । यावत्सु, यावथ्सु । स्त्रियाम्-यावती नदीवत । क्धीबे-यावत् यावती यावन्ति २ ॥ एवं तावत्-एतावत् ॥ इदं परिमाणमस्य इयत् पूर्ववत् इयान् इयन्तौ ५ इयतः इत्यादि । स्त्रियाम्-इयती नदीवत । क्लीबे-इयत इयतो इयन्ति २ ॥ एव कियत् ॥९॥ थन्ता मता वाच्यलिङ्गास्तक्रमथ्-प्रमुखाः समाः । दन्ताःक्रव्याद्-मुखाः पुंसि स्त्रियां तुल्या दृषद् मुखाः॥१०॥
'मन्थश्' तकं मनातीति "नो व्यञ्जनस्यानुदितः" nारा४५॥ तकमथ्-सिलोपे "धुटस्तृतीयः" ॥२१७६॥