SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया अम्ब!, हे अक्क ! हे अत्त ! हे अल्ल !, शेषं गङ्गावत् । निशैः, निशा: । निशा, निशया । निज्भ्याम्, निशाभ्याम् । निज्भिः, निशाभिः । निच्छु, निशासु । नसैः, नासिकाः । नसा, नासिकया । नोभ्याम् नासिकाभ्याम् । नस्सु, नःसु, नासिकासु । शेषं व्यञ्जनान्तवदावन्तवच्च यथायथं बोध्यम् ॥ 8383 ४४ सर्वादेर्ड पूर्वाः | १|४|१८|| सर्वादेराबन्तस्य ये ङितां यै यास् यास् यामस्ते डस्पूर्वा भवन्ति । सर्वस्यै, सर्वस्याः, सर्वासाम् । सर्वस्याम् । शेषं गङ्गावत् । द्वितीयस्यै, द्वितीयांयै, द्वितीयस्याम्, द्वितीयायाम् । एवं तृतीया । शेषं गङ्गावत् || जराया जरस वा | २|१|३|| स्वरादौ स्यादौ परे जराशब्दस्य जरस् इत्यादेशो वा भवति । जरसौ, जरे । जरसः, जराः । जरसा, जरया । जरसोः, जरयोः । जरसाम्, जराणाम् । जरसि, जरायाम् । शेषं गङ्गावत् । बुद्धीः ॥ स्त्रियां ङितां वा दै दास दात्र दाम् | १|४|२८|| स्त्रिलिङ्गेदुदन्तात्परेषां स्यादेर्डितां स्थाने क्रमेण दै दास् १ - अम्वादयो मातृवाचकाः । २ - मासनिशेत्यादिनाऽन्त्यलुक्। ३- तृतीयस्तृतीयचतुर्थे इति तृतीयत्वम् । ४- अन्त्यलोपे तृतीयत्वे अघोष इति प्रथमत्वे सस्य शषाविति शत्वे प्रथमादधुटीति छत्वम् । ५ - दन्तपादेत्यादिना नासिकाशब्दस्य नसादेशः । ६ - नाम सिदिति पदत्वे रुत्वे उत्वे ओत्वम् । ७ - पदत्वाद्रुत्वे शषसेति सत्वम्, विकल्पे विसर्गः । ८ - आदौ यै इत्यादेशः, पश्चाद् इस्पूर्वः । एवमग्रेऽपि । ९-तीयं कार्ये सर्वादित्वम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy