SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ .५५२ हैमनूतनलघुप्रक्रिया शिष्यते । भ्राता च स्वसा च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ । एवं सोदर्यमुतादिपर्यायस्थलेऽपि बोध्यम् । - श्वशुरः श्वश्रूभ्यां वा ।३।१।१२३॥ जातो धवयोगे च श्वश्रशब्देन सहोक्तौ श्वशुरशब्द एको वा शिष्यते । श्वशुरश्च श्वश्रूश्च श्वशुरौ, श्वश्रूश्वशुरौ । पुरुषः स्त्रिया ।३।१।१२६॥ पुरुषप्राणिवाचिशब्दः स्त्रीवाचिना शब्देन सहोक्तौ शिष्यते, स्त्रीपुरुषमात्रभेदश्चेद् भवति । पटुश्च पट्वी च पटू, कुक्कुटश्च कुक्कुटी च कुक्कुटौ । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । ' ग्राम्याशिशुद्विशफसो स्त्री प्रायः ।३।१।१२७॥ ग्राम्या अशिशवो ये द्विखुराः पशवस्तेषां संघे स्त्रीपुरुषाणां सहोक्तौ प्रायः स्त्रीवाची एकः शिष्यते, स्त्रीपुरुषमात्रभेदश्चेद् भवति । गावश्चमे गावश्चेमा इमा गावः । अन्यत्र पुरुषशेष एव । अश्वाश्चमा इमेऽश्वा इत्यपि । प्रायो ग्रहणात्उष्ट्रयश्च उष्ट्राश्चोष्ट्रा इत्यादि । गावश्च बलीवर्दाश्च गोबेलीवर्दम् । अत्र प्रकृतिभेदोऽपीति न भवति । ___ क्लीवमन्येनैकं च वा ।३।१११२८॥ क्लीबं नामाऽक्लीबेन सहोक्तावेकं शिष्यते क्लीबाक्लीवमात्रभेदश्चेद् भवति, शिष्यमाणं चैकार्थ वा. भवति । शुक्लं च शुक्लश्च १-अय॑त्वात्प्राक् प्रयोगः २-अर्घ्य प्राक् । .....
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy