________________
५४४ हैमनूतनलवुप्रक्रिया - 'प्लक्षाश्च न्यग्रोधाश्च प्लक्षन्यग्रोध , प्लक्षन्यग्रोधाः । कुशकाशम् , कुशकाशाः। तिलमाषम् , तिलमाषाः। रुरुषतम् , रुरुपृषताः। हंसचक्रवाकम् , हंसचक्रवाकाः । एकस्याऽपि पदस्य बहुत्वे एतत् । प्लक्षश्च न्यग्रोधाश्च 'प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः। बहुत्वे इति किम् ? 'प्लक्षच न्यग्रोधश्च प्लक्षन्यग्रोधौ अत्रेतरेतरयोग एव । एवमन्यत्र । स्वैरित्येव प्लक्षयवाः ॥ ..
सेनाक्षुद्रजन्तूनाम् ।३।१।१३४॥ सेनाङ्गानां क्षुद्रजन्तूनां च बहुत्वे वर्तमानानां स्वैर्द्वन्द्व एकार्थों नित्यं भवति । अश्वाश्च रथाश्चाऽश्वरथम् । रथिकाश्वारोहम् । क्षुद्रजन्तवोऽल्पकाया: प्राणिन आनकुलमिह, यूकालिक्षम् । बहुत्वे एव-अश्वश्च रथश्च अश्वरथौ । स्वैरेव हस्तिमशकाः।
प्राणितूर्याङ्गानाम् ।३।१।१३७॥ प्राण्यङ्गानां तूर्यागानां च स्त्रैर्द्वन्द्व एकार्थों भवति । दन्ताश्च ओष्ठौ च एषां समाहारो दन्तौष्ठम् । पाणी च पादौ च एषां समाहारः पाणिपादैम् । शङ्खश्च पटहश्वाऽनयोः समाहारः ७-१०-११-अल्पस्वरस्य प्राक्प्रयोगः । ८-९-लध्वक्षरस्य प्राङ्
निपातः । १२-धर्मार्थादिः । यवप्लक्षा इत्यपि । .. १-लध्वक्षरस्य प्राङ् निपातः । २-समाहारस्य मुख्यत्वात् क्लीबत्वाद् ह्रस्वत्वम् । समस्वरत्वाद् लिक्षायूकमित्यपि । ३-जसः स्थानिवद्भावेन व्यञ्जनादौ वा पदत्वान्नाम्नो न इति नलोपः । अल्पस्वरस्य प्राक्प्रयोगः । ४-इदन्तस्य प्राक्प्रयोगः ।