________________
हैमनूतनलघुप्रक्रिया .: ५०९ वैकव्याने पूर्ये ।३।२।१०४॥ उदकशब्दस्य पूरणीयवाचिन्यसंयुक्तव्यञ्जनादावुत्तरपदे उद इत्ययमादेशो वा भवति । उदकस्य कुम्भ उदकुम्भ उदककुम्भः । उदकेन पूरणीयः कुम्भ इत्यर्थः । एकव्यञ्जनः इति किम् ? उदकस्यामत्रमुदकामत्रम् , उदकस्य स्थालमुदकस्थालम् । पूर्ये इति किम् ? उदकस्य पर्वत उदकपर्वतः।
नाम्न्युत्तरपदस्य च ३।२।१०७॥ उदकशब्दस्य पूर्वपदस्योत्तरपदस्य च संज्ञाविषये उदादेशो भवति । उदकस्य पानमुदपानं निपानम् । उदकानि धीयन्तेऽस्मिन् उदधिः समुद्रः । लवणमुदकं यस्य लवणोदः । संज्ञेयं समुद्रविशेषस्य । एवं क्षीरोदाच्छोदादयः॥ . ....
॥अथ कर्मधारयसमासः ॥ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ।।१। ९६॥ विशेषणवाचि नामैकार्थ विशेष्यवाचिना नाम्ना सह समस्यते, स समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । नीलं च तदुत्पलं च नीलोत्पलम् । कृष्णाश्च ते तिलाश्च कृष्णतिलाः। विशिष्यतेऽनेकप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यते व्यावत्यतेऽनेनेति विशेषणं व्यावर्तको धर्मः, -१-अधिकरणेऽनट् । कर्मणि शेषे वा षष्ठी । २-उदक आम् घि इति
विग्रहः । कमणिः षष्ठी। संज्ञायांमधिकरणे किः । बहुप्रीहिः । ४-नील सि उत्पल सि ।