________________
श्री वीतरागाय परमात्मने नमः । श्री-सिद्धहेमशब्दानुशासनानुसारिणी हैमनूतनलघुप्रक्रिया ॥
॥ भङ्गलम् ॥ जीयाद्रीरो जगद्वन्द्यो भव्यकैरवचन्द्रमाः । शब्दातीतगुणोऽशेषातिशयश्रीनिषेवितः ॥१॥ हेमचन्द्रं मुनि नत्वा सिद्धहेमानुसारिणी । प्रक्रिया नूतना लची क्रियते सुखबोधदा ॥२॥
अहं ।१।१।१॥ अहमित्येतदक्षरं परमेश्वरस्य परमेष्ठिनी वाचकं सिद्धचक्रस्यादिबीजं सकलागमरहस्यं विघ्नविनाशकं सकलकामप्रदं शास्त्राध्ययनाध्यापनावधि प्रणिधेयम् ॥१॥
॥ मङ्गलम् ॥ वीरं नौमि जिनाधीश देवदेवं जगद्गुरुम् झानगीचरसर्वार्थ मोक्षमार्गप्रदर्शकम् ॥१॥ . नूतना प्रक्रिया लध्वी श्रीचन्द्रोदयसूरिणा पठतामुपकाराय टिप्पण्या भूष्यते . मया ॥२॥ .
टि०-१ न क्षरति क्षीयते वेत्यक्षरखदखण्डः शब्दः, वाच्यवाचकयोः कथञ्चिदभेदात्तीर्थङ्करश्च । अत्र श्रीविनयविजयगणिकारिका
"अहमित्यक्षरं ध्येय, परमेश्वरवाचकम् । शास्त्रादौ पठतां क्षेमव्युत्पत्त्यभ्युदयप्रदम् ॥ इति