SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् १५ तस्या अन्तः- अवसानं पदं न स्यात्, असषे - सस्य तु षत्वे पदमेव । परमदिवौ, बहुदण्डिनौ । असंष इति किम् ? दधिसेक् ॥ सविशेषणमाख्यातं वाक्यम् ||२६|| प्रयुज्यमानैरप्रयुज्यमानैर्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वा आख्यातं वाक्यं स्यात् । धम्म : 1 वात्पदत्वं प्राप्नोति, तथा च कत्वं स्यात्, उच्यते, समासानन्तरं समासान्तप्रत्ययस्य विधानेन त्वचो वृत्त्यन्तत्वान्न कत्वम्, समासान्तप्रत्ययश्च वृत्ति बहिर्भूत इति । वृत्त्यन्तशब्दात् सेः ओकारनिर्देश:, 'अन्तरङ्गं बहिरङ्गात् ' 'न स्वरान्तयें' इति न्यायौ सूचयति ॥ विशिष्यतेऽर्थोऽनेनेति विशेषणं करणे अनद्र, सह विशेपणैर्वर्त्तते यत्तत्सविशेषणम्, ख्याङ्क प्रकथने, आख्यायत इत्याख्यातम्, वर्च॑क् भाषणे, उच्यत इति वाक्यम् ॥ प्रयुज्यमानैरित्यादि, क्रियाविशेषस्य तत्साधनस्य वाडव्यधानेनातद्रूपव्यवच्छेदकं साक्षाद्विशेषणमुच्यते, विशेषणान्तरद्वारेण च व्यवच्छेदकं परम्पराविशेषणमुच्यते, उभयविधैरपि विशेषणैः प्रयुज्यमानैरप्रयुज्यमानैर्वा सहितं तथाविधं विशेष्यमाख्यातं वाक्यं स्यादित्यर्थः । आख्यातपदेन क्रियावाचकपदस्य ग्रहणं, न तु त्याद्यन्तमात्रस्य, तेन चैत्रेण शयितव्यमित्याद्यपि वाक्यं भवति । धर्मों वो रक्षतु, 'पदाद्युग्' इति वस् । रक्ष पालने, पञ्चमी तुव् । इदं प्रयुज्यमानविशेषणं, लुनीहि ३ 'क्षियाशीः' इति प्लुतः, एतदप्रयुज्यमानविशेषणम् । प्रयुज्यमानाख्यातकं यथा- पृथुकांश्च खाद, शीलं ते स्वमित्यप्रयुज्यमानाख्यातकम् । नन्वर्थावन्रोधाय शब्दप्रयोगः क्रियते, तत्र यद्यप्रयुज्यमानमपि पदं विशेषणविशेष्यभावं प्राप्नुयात्तर्ह्यतिप्रसङ्गः स्यादन्यस्याऽपि तत्प्राप्तेः, अप्रयुज्यमानत्वाविशेषात् सर्वं सर्वस्य विशेषणं विशेष्यं च स्यान्नियामकाभावात्, क्वचित्तयोः प्रयोगस्य व्यर्थता च स्यादिति चेन्न, लोकात्प्रकरणाद्वा विशेष्यविशेषणयोर्नियतयोः प्राया -
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy