________________
३५८
सिमलघुवृत्तौ । [ तृतीयाध्यायस्य
श्वरः । अपापाद्यैरिति किम् ? पापवैयाकरणः हतविधिः ॥ उपमानं सामान्यैः ॥ १०१ ॥ उपमानवाच्येकार्थमुपमानोपमेयसाधारणधर्म्मवाचिभिरेव समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । शस्त्रीश्यामा, मृगचपाला । उपमानमिति किम् ? देवदत्ता श्यामा | सामान्यैरिति किम् ? अग्निर्माणवकः ॥ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥ १०२ ॥ उपमेयवाच्ये कार्थमुपमानवाचिभिर्व्याघ्राद्यैः साधारणधर्मा
समासो भवति, चौरवैयाकरणः विशेष्यस्य पूर्वनिपातार्थं सूत्रम् ॥ उपमीयतेऽनेनेत्युपमानम्, सामान्यैः । उपमानोपमेययोः साधारणो धर्मः सामान्यम् । शस्त्रीव शस्त्री, शस्त्री चासौ श्यामा च शस्त्रीश्यामा, शस्त्री व श्यामेत्यर्थः । अत्र श्यामाशब्दो विशिष्टायां शख्यां तदुपमितायां वा देवदत्तायां वर्त्तत इति विशेषवृत्तित्वात् कथं साधारण धर्म्मवाची, उच्यते सर्वशब्दः शब्दान्तरसम्बन्धे विशेषवाचित्वात् सामान्यवचनो न भवतीति सामान्यपदोपादानसामर्थ्याच्छन्दान्तराभिसम्बन्धरूपसमासात् पूर्वं यश्शब्दः सामान्यवचनः स गृह्यते शस्त्री श्यामा इत्यत्र हि वाक्ये श्यामत्वसामान्यमुपमानोपमेयगतमाश्रित्य श्यामशब्दः प्रवृत्त इति साम्प्रतिकाभावे भूतपूर्वगत्याश्रयणादिष्ट सिद्धिरिति । यत्र किञ्चित्समानं किञ्चिच्च विशेषस्तत्रोपमानोपमेये भवतः । पूर्वपदं तत्सदृशे लाक्षणिकम्, अत एव सामानाधिकरण्यान्मृगीव चपला मृगचपलेत्यादौ पुंवद्भावः, सादृश्यञ्चोत्तरपदोपस्थितश्यामत्वचापलादिद्वारकमेव गृह्यते श्रुतं विहायाऽश्रुतकल्पने गौरवाssपत्तेः । विशेषणं विशेष्येणेत्येव समास उपमानोपमेययोः साधारणधर्मंप्रतीत्यन्यथानुपपत्त्यैव पूर्वनिपाते च सिद्ध उपमानं सामान्यैरेवेति नियमार्थं वचनम् । तेनाग्निर्माणवक इत्यादौ विशेषणसमासोऽपि न भवति || उपमेयं, व्याघ्र आयो येषां तानि तैः समस्य भावः साम्यं, न उक्तिः, अनुक्ति, साम्यस्यानुक्तिस्तस्याम् ॥ एकार्थमित्यनुवर्त्तते । व्याघ्र
,