________________
२५४
सिद्धहेमलघुवृत्तौ [द्वितीयाध्यायस्य शरत् ॥ कवगैकस्वरवति ॥ ७६ ।। पूर्वपदस्थाद्रादेः परस्य कवर्गवत्येकस्वरवति चोत्तरपदे सति, उत्तरपदान्तस्य नागमस्य स्यादेश्च नो ण् स्यात् , न चेदसौ पक्कस्य । स्वर्गकामिणौ, वृषगामिणौ, ब्रह्महणौ, यूषपाणि । अपक्कस्येत्येव ? क्षीरपक्केन । अदुरुपसर्गान्तरो णहि. नुमीनाऽऽनेः ॥ ७७ ॥ दुर्वपसर्गस्थादन्तःशब्दस्थाच्च रादेः पर. स्यैषां नो ण् स्यात् । णेति णोपदेशा धातवः-प्रणमति, परिणायकः, न्तनकारस्य सद्भावेऽपि युवादिवर्जनान्न भवति ॥ एकश्चासौ स्वरश्व, कवर्गश्च, एकस्वरश्च, कवगै कस्वरमस्यास्तीति तस्मिन् ॥ वारहितं पूर्वसूत्रमनुवर्तते, तत्रापि युवन् अहन् शब्दौ वर्जयित्वा, कवर्गकस्वरवत्त्वाभावात् । स्वर्ग कामयेते इत्येवंशीलौ, 'गतिकारके 'ति न्यायेन समासः, वृषवत् गच्छत इत्येवंशीलौ, एकस्वरस्य तु ब्रह्माणं हतवन्तौ, यूषं मुद्गरसं पिबन्ति यानि कुलानि तानि यूषपाणि । नित्यार्थ वचनम् , 'गतिकारके 'ति न्यायेन समासानिमित्तनिमित्तिनोरेकपदस्थत्वेन 'रघुवर्णादिति नित्ये प्राप्ते 'वोत्तरपदान्ते 'ति तद्बाधित्वा विकल्पेन णत्वे प्राप्ते पुनरनेन विधानात् ।। न दुर् अदुर्, अदुर् चासौ उपसर्गश्च, अदुरुपसर्गश्च अन्तर् च तस्मात्, णश्च हिनुश्च मीनाच, आनिश्च, तस्य ॥ हिनुमीनाऽऽनिग्रहणात् समासस्यासम्भवात् पूर्वपदस्थादित्यस्य निवृत्तिः, णेति णोपदेशा धातवो गृह्यन्ते, उपसर्गाण्णत्वविधानात् । प्रोपसर्गाण्णमं प्रवत्वे, तिव् , परि. णयतीति परिणायकः, णींग प्रापणे, णक् । हिंट गतिवृद्ध्योः, वर्त. माने तस् ‘स्वादेः श्नुः' अनेन णत्वम् । मींग्श् हिंसायां, वर्तमाने तस् ‘क्रयादे' रिति भा, 'एषामीळञ्जनेऽदः' ईकारः, 'एकदेशविकृतस्यानन्यत्वाद् हिनुमीनयोरभावेऽप्यनेन णत्वम् , 'स्थानीवावर्णविधावि'त्यनेनापि न निर्वाहः, असद्विधौ स्वरस्य स्थानिवद्भावप्रतिषेधात् । आनीत्यर्थवत एव ग्रहणं 'अर्थवद्हणे