________________
२५२ सिद्धहेमळघुवृत्तौ द्वितीयाध्यायस्य देशे ॥ ७० ॥ पूर्वपदस्थाद्रादेः परस्य देशविषयस्य पानस्य नो ण् नित्यं स्यात् । क्षीरपाणा उशीनराः। देश इति किम् ! क्षीरपाना गोदुहः ॥ ग्रामाग्रान्नियः ॥ ७१ ॥ आभ्यां परस्य नियो ग् स्यात् । ग्रामणीः, अग्रणीः ॥ वाह्याद्वाहनस्य ॥७२॥ वाद्यवाचिनो रादिमतः पूर्वपदात्परस्य वाहनस्य नो ण् स्यात् । इक्षुवाहणम् । वाह्यादिति किम् ! सुरवाहनम् ॥ अतोऽहस्य ॥ ७३ ॥ रादिमतोऽदन्तात्पूर्वपदात्परस्याहस्य नो ण् स्यात् । पूर्वाहः । अत इति) किम् ? दुरहः । अहस्येति किम् ! दीर्घाही शरत् ॥ चतुस्नेहयनस्य वयसि ।।७४ ॥ आभ्यां पूर्वपदाभ्यां परस्य हायनस्य नो ण् स्यात् , वयसि गम्ये । चतुर्हायणो वत्सः, त्रिहायणी वडवा । वयविशेषः ।। देशे ॥ पानस्येत्यनुवर्तते । भावकरण इति नाऽनुवर्तते; नवेति च निवृत्तं पृथग्योगात् । पीयंत इति पानम् , क्षीरं पानं येषान्ते क्षीरपाणाः ॥ ग्रामश्च अमं च तस्मात्, नियः षष्ठी । प्राम अग्रं वा नयतीति । यद्यप्यत्र गतिकारके "ति न्यायाद्विभक्त्युत्पत्तेः प्रागेव समासे निमित्तनिमित्तिनोरेकपदत्वाद्रषवर्णादिति णत्वं सिद्धं तथापि यदि नियो णत्वं स्यात्तर्हि प्रामाप्रावेति नियमार्थ सूत्रम् , तेन खरनीः, मेषनीरित्यादौ पूर्वसूत्रेणापि णत्वं न भवति ॥ वाह्यात् , वाहनस्य ॥ ऊह्मतेऽनेनेति वहनम्, वहनमेव वाहनम्, प्रज्ञादित्वादण् प्रत्ययः । इक्षणां वाहनं, इक्षुवाहणम् । सुराणां वाहनं, सम्बन्धमात्रमत्र विवक्षितम् , न तु वहन क्रियापूर्वके कर्मकरणसम्बन्धे ॥ अतः पञ्चमी, अहस्य । अहः पूर्व पूर्वाह्नः, सर्वाशसङ्ख्याऽव्ययादिति अट्समासान्तः, अङ्ग इत्यादेशश्च । दुष्टमहो दुरहः । अह्न इत्यकारा. न्तनिर्देशात् दीर्घाही शरदित्यत्र न णत्वम् ।। चत्वारश्च त्रयश्च चतुति तस्मात् , हायनस्य, वयसि ॥ जहाति कालान्तरमिति हायनः, चत्वारो हायना यस्य चतुर्हायणः । त्रयो हायना यस्याः सा त्रिहा