________________
२५०
सिद्धहेमलधुवृत्तौ . [ द्वितीयाध्यायस्य पूर्वपदस्थान्नाम्न्यगः ॥६४ ॥ गन्तवर्जपूर्वपदस्थाद्रवर्णात्परस्योचरपदस्थस्य नो ण् स्यात् , संज्ञायाम् । गुणसः, खरणाः, शूर्पणखा । नाम्नीति किम् ? मेषनासिकः । अग इति किम् ? ऋगयनम् ।। नसस्य ।। ६५ ॥ पूर्वपदस्थाद्रवर्णात्परस्य नसस्य नो ण् स्यात् । प्रणसः ॥ निष्प्राऽग्रेऽन्तःखदिरकार्याघ्रशरेक्षुप्लक्षपीयक्षाभ्यो वनस्य ॥ ६६ ॥ निरादिभ्यः परस्य वनस्य नो श् स्यात् । निर्वणं प्रवणमग्रेवणमन्तर्वणं खदिरवणं कार्यवणमाम्रवणं शरभावात् । ननु ऋवर्णग्रहणं किमर्थम् , नृणामित्यादौ ऋकारमध्यव्यवस्थितरकाराश्रयं णत्वं भवत्येवेति चेन्न, वर्णग्रहणेन वर्णैकदेशस्याग्रहणाद्वर्णबुद्धस्तद्भिन्नत्वाद्वर्णैकदेशेन तदनुत्पादात्, अत एव ऋग्रहणेन 'वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यत' इति न्यायोऽनित्यः । अधिकारश्चायमा णत्वविधेः । पदे एव णत्वविधानात् , खणं तक्षणमित्यादौ स्याद्युत्पत्तिपूर्वमपि ‘भाविनो भूतवदुपचार' इति न्यायेन भाविनः पदत्वस्य भूतवदुपचाराण्णत्वम् । रशना कटिमेखला दवरक इत्यर्थः ।। पूर्वपदे तिष्ठतीति पूर्वपदस्थस्तस्मात् , नाम्नि, न विद्यते ग् यस्य अगू तस्मात् ॥ द्रुणसः, द्रुरिव नासिकाऽस्य, 'अस्थूलाचे 'ति नसः, अनेन णः, पूर्वपदस्थरकारात्परस्य नस्य णः। 'खरखुरान्नासिकाया नस्' खरवन्नासिका यस्यासौ खरणाः । शूर्पाऽऽकारा नखा यस्याः सा शूर्पणखा । ऋचां अयनं ऋगयनम् , गकारेण व्यवधानादयनस्य नस्य न णः। पूर्वसूत्रेणाप्राप्ते वचनम् ॥ नसस्य ।। पूर्वपदस्थादित्यनुवर्तते, एवमग्रेऽपि । प्रगता प्रवृद्धा वा नासिका यस्य सः प्रणसः । अनाम्नि वचनमिदम् । उपसर्गादिति नासिकाया नसादेशः समासान्तः ॥ निश्च प्रश्च अग्रे च अन्तश्च खदिरश्च कार्यश्च आम्रश्च शरश्च इक्षुश्च प्लक्षश्व पीयूक्षा च ताभ्यः, वनस्य ॥ वनान्निष्क्रान्तं निर्वणम्, प्रकृष्टं वनं प्रवणम् , वनस्याऽग्रेऽग्रेवणम् , 'पारे मध्येऽग्रेऽन्तः षष्ट्यावे'त्ये. कारः । वनस्याऽन्तोऽन्तर्वणम् , खदिराणां वनम् , कार्यशब्दो वृक्ष