SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीविचारपञ्चाशिका 1 अवचूरि : - इत्युक्तप्रकारेण सूत्राद्भणिता कथिता विचारपञ्चाशिका, स्वपरकृते । केन ? विनेयेन शिष्येण वानराख्येण । केषाम् ? मुनिश्चासौ श्रीश्च मुनिश्रीः, आनन्दो धर्मध्यानादिलक्षणस्तेन विगतो मलः प्रमादरूपो येषां ते आनन्दविमलाः, मुनिश्रीयुता आनन्दविमला मुनिश्री आनन्दविमलाः । अथवा मुनिशब्दः सप्तसङ्ख्य उच्यते, तेन मुनिश्रीभिः सप्तश्रीभिः राजमाना आनन्दविमला मुनिश्री आनन्दविमलाः । अथवा मुनीनां श्रीः शोभा येभ्यस्ते मुनिश्रियश्च ते आनन्दविमलाश्च मुनिश्रीआनन्दविमलाः, सूरिष्वाचार्येषु वरा श्रेष्ठाः सूरिवराः । अथवा सूरयः श्रीहेमविमलास्तेभ्यो वरं प्रधानमाचार्यपदरूपं येषां ते सूरिवराः । मुनिश्री आनन्दविमलाश्च ते सूरिवराश्च मुनिश्री आनन्दविमलसूरिवरास्तेषामिति । अत्र मया मूढेन यदागमविरुद्धं बद्धं तदागमधरैः पण्डितवरैर्मयि कृपां विधाय संशोध्यम् ॥५१॥ ૧૬૯ ॥ इति विचारपञ्चाशिका पं० श्रीवाह्न ( नर )र्षि गणि- विजयविमलापरनाम्ना कविना कृता । सूत्रतोऽवचूरितश्चापि सम्पूर्णा ॥
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy