________________
श्रीयोनिस्तवः
૧૬૩
प्रकारान्तरेण योनीराह
सीआ उसिणा मीसा, तिह भूजलऽनिलअसन्निविगलवणे । सीओसिण सुरगब्भे, सीआ उसिणा दुहा नरए ॥ ३ ॥
टि० पृथ्वीजलवायूनाम्, असञ्ज्ञितिर्यङ्नराणाम्, एकेन्द्रियाणां ( विकलानां द्वित्रिचतुरिन्द्रियाणां वनस्पतेः) च त्रिधा शीता, उष्णा, मिश्रेति । सुराणां गर्भजतिर्यड्नराणां च मिश्रा । नारकाणां द्विधा योनिः । तत्राद्यनरकत्रये उष्णवेदनावति शीता योनिः । नरके शीतवेदना उष्णवेदना च स्तः, न शीतोष्णोभयरूपवेदना । चतुर्थ्यां बहुषु उपरितननरकावासेषु शीता, अधः स्तोकेषु शीतवेदनेषु उष्णा । पञ्चम्यां बहुषु शीतवेदनेषु उष्णा, स्तोकेषु उष्णवेदनेषु शीता । षष्ठसप्तम्योर्नारकाणां योनिरुष्णैव । शीतयोनिकानां ह्युष्णवेदनाऽत्यन्तदुःसहा, उष्णयोनिकानां तु शीतवेदनेति ॥ ३ ॥
उसिणा य तेकाए, संवुडजोणी इगिंदिसुरनिरए । विगलासन्नि विडा, संवुडवियडा य गब्भंमि ॥ ४ ॥
टि० तेजः कायिकानामुष्णा योनिः । पुनः प्रकारान्तरेणाह - एकेन्द्रियाणां संवृता योनिः, स्पष्टमनुपलक्ष्यमाणत्वात् । सुराणां देवदूष्यान्तरोत्पादात्संवृता । नारकाणामुत्पत्तिस्थाननिष्कुटानां संवृतगवाक्षकल्पत्वात्संवृता योनिः । विकलानामसञ्ज्ञितिर्यङ्नराणां च विवृता योनि:, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलक्ष्यमाणत्वात् । संवृतविवृता उभयरूपा गर्भजतिर्यङ्नराणां, गर्भा ह्यन्तः स्वरूपतो नोपलभ्यन्ते, बहिस्तूदरवृद्ध्यादिनोपलक्ष्यते ॥ ४ ॥
पुन: प्रकारान्तरेणाह
कुम्मुन्नयाइ उत्तमनर, वंसीपत्तजोणि सेसनरा । नियमा गब्भविणासी, संखावत्ता उ थीरयणे ॥ ५ ॥