________________
९२]
[हैम-शब्दानुशासनस्य वल: स्यात् ।
शिखावलं पुरम् ॥७६॥ शिरीषादिक-कणौ । ६ । २ ।। ७७ । अस्माद् देशनाम्नि चातुरथिको इक-कणौ स्याताम्
शिरीषिक: शैरीषकः ॥७७॥ शर्कराया इकण्-ईयाऽण् च । ६।२।७८॥ अस्मात् चातुरथिकाद देशनाम्नि इकण्-ईय-अण, चकारात् इक-कण इत्येते स्युः। शार्करिकः, शर्करीयः, शार्करः,
शरिकः, शार्करकः ॥७॥ रोऽश्माऽऽदेः। ६ । २ । ७९ । चातुरथिको देशनाम्नि रः स्यात् ।