________________
-५२४ ]
राष्ट्रार्थोत्तरपदस्य व्णिति तद्धिते स्वरेषु
[ हैम-शब्दानुशासनस्य
आदेः स्वरस्य
वृद्धिः स्यात् ।
सुपाञ्चालकः सर्वपाञ्चालकः अर्धपाञ्चालकः ॥१५॥
अमद्रस्य दिशः | ७ | ४ | १६ |
दिगर्थात् परस्य मद्रवर्जराष्ट्रार्यस्य णिति तद्धिते स्वरेषु
आदेः स्वरस्य
वृद्धिः स्यात् ।
पूर्वपाञ्चालकः अमद्रस्येति किम् ? पौर्वमद्रः ॥ १६ ॥