________________
स्वोपक्ष-लघुवृत्तिः]
[३५५ निपात्यते, अन्वेष्टा चेत् ।
अनुपदी गवाम् ॥१७॥ दाण्डाजिनिकाऽऽयः-शूलिक-पार्श्व
कम् । ७।१।१७१ । एते यथायोगं इकण-कान्ताः निपात्या,
अन्वेष्टरि अर्थे । दाण्डाजिनिको दाम्भिकः, आयःशूलिका तीक्ष्णोपायः
अर्थान्वेष्टा, पार्श्वका अनृपायः, स एव ॥१७१॥ क्षेत्रेऽन्यस्मिन् नाश्ये इयः ।७।१।१७२। क्षेत्रान्निदें शात् ङयन्तात् अन्योपाधिकात् नाश्येऽथे