________________
स्वोपक्ष-लघुवृत्तिः]
[२१७ शाब्दिक-दादरिक-लालाटिक-कौक्कुटिकम्
।६। ४ । ४५।
इकणन्ताः निपात्यन्ते । शाब्दिको-वैयाकरणः, दार्दरिको-वादित्रकृत् लालाटिक:-प्रमत्तः सेवाकृत्
कौक्कटिको-भिक्षुः ॥४५॥ समूहार्थात् समवेते । ६ । ४ । ४६ । अस्माद् द्वितीयान्तात् समवेतेऽर्थे इकण् स्यात् ।
सामूहिकः
। सामाजिकः ॥ ४६ ॥ पर्षदो ण्यः। ६ । ४ । ४७ । अस्माद्
६